________________
त्रिषष्टिशलाकापुरुषचरिते IR४६॥
दशमं पर्व अष्टमः सन: श्रीमहावीरजिनचरितम् ।
तस्य चाहन्निति ख्याति लोक आकर्ण्य मुग्धधीः । उपेत्योपेत्य विदधे निरन्तरमुपासनम् ।। ३५७ ।। इतश्च समये प्राप्ते गौतमः स्वाम्यनुज्ञया । प्राविशत् पुरि भिक्षार्थ चिकीर्षुः षष्टपारणम् ।। ३५८ ॥ गोशालोऽत्रास्ति सर्वज्ञोऽर्हन्नित्याकर्ण्य तत्र च । गौतमः सविषादोऽगादात्तभिक्षोऽन्तिके प्रभोः ।। ३५९ ॥ यथावत् पारणं कृत्वा गौतमः समये प्रभुम् । पश्यतां पौरलोकानामपृच्छत् स्वच्छधीरिति ।।३६० ॥ स्वामिन्नगर्यामेतस्यां व्याहरन्त्यखिला जनाः । सर्वज्ञ इति गोशालं किमेतद् घटते न वा ? ।। ३६१ ।। अथाख्यद्भगवानेष सूनुमखस्य मंखलेः । अजिनोऽपि जिनंमन्यो गोशालः कपटालयः ।। ३६२ ।। मयैव दीक्षितश्चायं शिक्षां च ग्राहितो मया । मिथ्यात्वं प्रतिपन्नो मे सर्वज्ञो नैष गौतम ! ॥३६३ ।। तत्तु स्वामिवचः श्रुत्वा पौराः पुर्यामितस्तः । एवं बभाषिरेऽन्योऽन्यं चत्वरेषु त्रिकेषु च ॥३६४ ।। हं हो अर्हन्निहायातो वीरस्वामी वदत्यदः । गोशालो मंखलिसुतो मिथ्या सर्वज्ञमान्यसौ ॥३६५ ।। जनश्रुत्या ततः श्रुत्वा गोशालः कालसर्पवत् । आपूर्यमाणः कोपेन तस्थावाजीवकावृतः ॥३६६ ।। इतश्च स्वामिनः शिष्य आनन्दः स्थविराग्रणीः । षष्ठपारणकं कर्तुं भिक्षार्थ प्राविशत् पुरि ।। ३६७ ।। हालाहलागृहासीनो गोशालस्तत्प्रदेशगम् । आनन्दमुनिमाहूय साधिक्षेपमदोऽवदत् ।। ३६८ ॥ भो आनन्द! तवाचार्यो लोकात् सत्कारमात्मनः । इच्छन् वीरः सभान्वक्षं मां तिरस्कुरुतेतराम् ।।३६९ ॥ १- "नाम् ।
श्रीमहावीरोपरि गोशालकमुक्ततेजोलेश्यावर्णनम् ।
|IR४६॥