________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरित |२४५॥
अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
इत्युक्ते चन्दनां तस्या क्षमयन्त्या मुहुर्मुहुः । घातिक्षयान्मृगावत्या उदपद्यत केवलम् ।।३४४ ।। निद्रान्त्याश्च प्रवर्तिन्या भुवो बाहुमुदक्षिपत् । तत्पार्धे यान्तमुरगं दृष्ट्वा केवलशक्तितः ।। ३४५ ॥ प्रबुद्धया चन्दनया पृष्टा किं बाहुरुद्धृतः ? । महाहिरिह यातीति शशंस च मृगावती ॥३४६ ।। भूयोऽपि चन्दनाऽवोचत्सूचीभेद्ये तमस्यपि । मृगावति ! कथं दृष्टस्त्वयाऽहिर्विस्मयो मम ॥२४७ ॥ मृगावती भगवतीत्याचचक्षे प्रवर्तिनि ! उत्पन्नकेवलज्ञानचक्षुषा ज्ञातवत्यहम् ।। ३४८ ॥ केवल्याशातनी धिङ्मामित्यश्रान्तं स्वगर्हया । उत्पेदे केवलज्ञानं चन्दनाया अपि क्षणात् ।। ३४९ ।। इतश्च गौतमोऽपृच्छन्नाथ ! भावाः स्वभावतः । किं यान्त्यन्यत्वमर्केन्दुविमाने यदिहेयतुः ।। ३५० ।। स्वाम्याख्यत् स्युर्दशाश्चर्याण्युसर्गा यदर्हताम् । गर्भापहारश्चन्द्रार्कविमानावतरस्तथा ।। ३५१ ।। चमरोत्पातः परिषदभव्याऽोत्तर शतम् । सिद्धा अपरकंकायां कृष्णस्य गमनं तथा ।।३५२॥ असंयताएं स्त्रीतीर्थ हरिवंशकुलोद्भवः । ततोऽसौ संगतोऽर्केन्दुविमानावतरः खलु ।। ३५३ ॥
॥त्रिभिर्विशेषकम् ।। इत्याख्याय ततो नाथः श्रावस्ती विहरन् ययौ । तस्यां च समवासार्षीदुद्याने कोष्टकाभिधे ।। ३५४ ॥ तस्यां प्रागागतस्तेजोलेश्याहतविरोधिकः । अष्टांगनिमित्तज्ञानज्ञातलोकमनोगतः ।। ३५५ ॥ अजिनोऽपि जिनशब्दमात्मना संप्रकाशयन् । हालाहलाकुंभकार्या गोशालोऽवसदापणे ॥३५६॥।॥ युग्मम्।।
चन्द्रसूर्ययोः मूलविमाने न अवतारणम् ।
२४५॥