________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२४४ ।।
चुलनीपितृवत्सोऽपि स्वाम्यग्रे श्रावकव्रतम् । नियमांश्चाग्रहीत्पत्नीस्ता विना त्वमुचत् स्त्रियः ॥ ३३० ॥ श्रावस्त्यामन्यदा पुर्यां भगवान् विहरन् ययौ । तत्र कोष्टकसं चोपवने समवासरत् ।। ३३१ ।। तत्र चानन्दतुल्यर्द्धिर्गृह्यासीन्नन्दिनीपिता । अश्विनीव शशांकस्य तस्य चाश्विन्यभूत्प्रिया ।। ३३२ ।। आकर्ण्य श्रीमहावीरवदनाद्धर्मदेशनाम् । श्रावकत्वं नियमांश्च सोऽप्यानन्द इवाऽग्रहीत् ॥ ३३३ ॥ तत्रैवानन्दतुल्यर्द्धिर्गृह्यासील्लान्तिकापिता । तत्पत्नी फल्गुनीनामा फल्गु वल्गु प्रजल्पिनी ॥ ३३४ ॥ श्रीवीरस्वामिपादान्ते समाकर्णितदेशनः । श्रावकत्वं नियमांश्च सोऽप्यानन्द इवाऽऽददे ।। ३३५ ।। सुरैरप्यपरिक्षोभ्याः श्रावकत्वाद्द्विरिस्थिराः । दशैवं श्रावकवराः श्रीवीरस्वामिनोऽभवन् ॥ ३३६ ॥ एवं च बोधयन् भव्यानम्भोजानीव भास्करः । भूयो जगाम कौशाम्बीं नगरी परमेश्वरः ।। ३३७ ॥ प्रभोश्चरमपौरुष्यां वन्दनायेन्दुभास्करौ । स्वाभाविकविमानस्थौ तस्यां युगपदेयतुः ॥ ३३८ ॥ तयोर्विमानतेजोभिर्नभस्युद्योतिते सति । लोकस्तथैव तत्राऽस्थात् कौतुकव्यग्रमानसः ।। ३३९ ॥ विज्ञायोत्थानसमयं चन्दना तु प्रवर्तिनी । वीरं प्रणम्य वसतिं स्वां ययौ सपरिच्छदा ।। ३४० ।। मृगावती तु तत्रस्थमार्तण्डोद्योततेजसा । नाज्ञासीद्रात्रिमायातां तत्रैवाऽऽस्थाद्दिनभ्रमात् ॥ ३४१ ।। चन्द्रार्कयोर्गतवतोर्ज्ञात्वा रात्रिं मृगावती । प्रतिश्रयमुपेयाय चकिता काललचनात् ।। ३४२ ।। तामुचे चन्दना साध्वि ! कुलीनायास्तवेदृशम् । किं युज्यते ? यन्निशायां बहिरेकाकिनी स्थिता ।। ३४३॥
दशमं पर्व
अष्टमः सर्गः
श्रीमहावीरजिनचरितम् ।
भगवतो
महावीरस्य दशानां श्रावकाणां
चरित्राणि ।
॥२४४ ॥