________________
त्रिषष्टिशलाकापुरुषचरिते IR४३॥
दशमं पर्व | अष्टमः सर्गः श्रीमहावीरजिन
चरितम् ।
बहिरस्मात्पुरात् कुम्भकारापणशतानि मे । पंच सन्ति तेषु पीठाद्यादायाऽनुगृहाण माम् ।। ३१७ ॥ तद्वचः प्रत्यपादीशस्तं च गोशालशिक्षया । उपात्तान्नियतिवादाधुक्तिभिर्विन्यवर्तयत् ।।३१८ ॥ त्यक्त्वा नियतिवादं स प्रमाणीकृत्य पौरुषम् । आनन्द इव शिश्राय स्वाम्यग्रे श्रावकव्रतम् ।। ३१९ ।। परं विशेषो नियमे निधिवृद्धिनियोगगाः । तिस्रस्तस्य स्वर्णकोट्यो व्रजस्त्वेको गवामिति ।। ३२० ॥ अग्निमित्रा च तत्पत्नी तेनैव प्रतिबोधिता । आगत्य स्वामिनः पार्थे शिश्रिये श्रावकव्रतम् ।। ३२१ ।। विहर्तुमन्यतोऽचालीत्ततश्च भगवानपि । गोशालकोऽपि ह्यौषीज्जनश्रुत्येदमुच्चकैः ।। ३२२ ।। आजीवकानां समयं हित्वा शब्दालपुत्रकः । निग्रंथानां श्रमणानां शासनं प्रतिपन्नवान् ।। ३२३ ।। ततश्चाचिन्तयत्तत्र गत्वा शब्दालपुत्रकम् । आजीवकानां समये स्थापयाम्यद्य पूर्ववत् ।। ३२४ ।। इत्यागात्तत्र गोशालस्तद्वेश्माऽऽजीवकैर्वृतः । तं च शब्दालपुत्रो न दृशाऽपि समभावयत् ।। ३२५ ॥ शब्दालपुत्रं गोशालः स्वे संस्थापयितुं मते । श्रावकत्वाच्चलयितुं चाऽशक्तो निर्ययौ पुनः ॥३२६ ॥ अधिराजगृहं वीरश्चैत्ये गुणशिलाह्वये । गत्वाऽथ समवासार्षीत् सुरासुरनिषेवितः ॥ ३२७ ।। चुलनीपितृतुल्यर्द्धिर्महाशतकनामकः । गृह्यभूत्तस्य पल्यश्च रेवत्याधास्त्रयोदश ।। ३२८ ॥ हिरण्यकोट्यो रेवत्या अष्टावष्ट व्रजाः पुनः । एका कोटी व्रजश्चैकोऽन्यासां प्रत्येकमप्यभूत् ।। ३२९ ।।
भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि ।
IR४३॥
१वाऽ ।