SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥२४२ ॥ कामदेव इव स्वामिपादाग्रे श्रावकव्रतम् । सोऽग्रहीन्नियमांश्चापि पुष्पया भार्यया सह ।। ३०४ ॥ इतश्च पोलाशपुरे गोशालोपासकोऽवसत् । शब्दालपुत्रः कुलालोऽग्निमित्रा तस्य च प्रिया ॥ ३०५ ॥ हिरण्यकोटिस्तस्यैका निधानेऽन्या तु वृद्धिगा । तृतीया व्यवहारेऽभूद् व्रज एकश्च गोऽयुतम् ॥ ३०६ ॥ बहिश्च पोलाशपुरात् कुम्भकारस्य तस्य तु । कुम्भकारापणशतान्यासत् पंच सदापि च ॥ ३०७ ॥ तमशोकवनेऽवोचत्त्रिदशः कोऽपि यत्प्रगे । सर्वज्ञोऽर्हन्महाब्रह्मा त्रैलोक्यार्च्य इहैष्यति ।। ३०८ ॥ सेवेथास्तं च फलकपीठस्रस्तरकादिना । एवं द्विस्त्रिर्गदित्वा तं त्रिदशः स तिरोदधे ॥ ३०९ ॥ आजीवभक्तो दध्यौ स नूनं धर्मगुरुः स मे । सर्वज्ञः खलु गोशालः प्रातरत्र समेष्यति ।। ३१० ।। विचिन्त्यैवं स्थिते तस्मिन् प्रातस्तत्र समागतः । श्रीवीरः समवासार्षीत् सहस्राम्रवणे वने ।। ३११ ।। कुम्भकारः सोऽपि गत्वा भगवन्तमवन्दत । कृत्वा च देशनां स्वामी तं कुलालमभाषत ।। ३१२ ॥ शब्दालपुत्र ! भो ह्यस्त्वामशोकवनगं सुरः । कोऽप्यूचे यत्प्रगे ब्रह्मा सर्वज्ञोऽर्हन्निष्यति ।। ३१३ ॥ उपास्यः स त्वया पीठफलकादिसमर्पणात् । त्वयाऽपि तद्गिराऽचिन्ति यद्गोशालः समेष्यति ।। ३१४ ।। इति स्वामिवचः श्रुत्वा सोऽचिन्तयदहो अयम् । सर्वज्ञोऽर्हन्महावीरो महाब्राह्मण आगतः ।। ३१५ ।। तन्नमस्करणीयोऽयमुपास्यः सर्वथाऽपि हि । इत्युत्थाय प्रभुं नत्वा स प्राञ्जलिरदोऽवदत् ॥ ३१६ ।। १-२ - ब्लासषुः । *6:+৬%% दशमं पर्व अष्टमः सर्गः श्रीमहावीर जिनचरितम् । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । ॥२४२ ॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy