________________
त्रिषष्टिशलाकापुरुषचरिते २४१॥
दशमं पर्व अष्टमः वर्गः श्रीमहावीरजिनचरितम् ।
यथासुखं गृहाणेति स्वामिनाऽनुमतस्ततः । प्रतिपेदे श्रावकाह धर्म द्वादशधाऽपि सः ॥२९१ ॥ अष्टष्टकोट्यभ्यधिकं स्वर्ण निध्यादिषु त्रिषु । व्रजेभ्योऽन्यानथाष्टभ्यः प्रत्याचख्यौ व्रजानपि ।। २९२ ॥ नियमं चान्यवस्तूनां कामदेव इवाददे । श्यामा तत्पल्यपि स्वामिसमीपे श्रावकव्रतम् ।। २९३ ।। तदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीचिता ? || २९४ ।। अथोचे स्वामिना नैष यतिधर्म प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ।।२९५ ।। अरुणाभे विमाने च चतुःपल्योपमस्थितिः । ततश्च्युत्वा विदेहेषूत्पद्य निर्वाणमेष्यति ।। २९६ ।। तत्रैवाऽऽसीत् सुरादेवो गृही धन्या च तत्प्रिया । आसीत्तस्य हिरण्यादि पुष्कलं कामदेववत् ।। २९७ ॥ स कामदेववद्गत्वा स्वाम्यग्रे श्रावकव्रतम् । नियमांश्चाग्रहीत् सार्धं धन्यया धर्मधन्यया । २९८ ॥ ततश्च विहरन् स्वामी पुरीमालभिकां ययौ । तत्र शंखवनोद्याने भगवान् समवासरत् ।। २९९ ।। पुर्यां तत्राभवच्चुल्लशतिको नामतो गृही । कामदेवसमस्त्वृद्ध्या बहलेति च तत्प्रिया ॥ ३०० ॥ स कामदेववद्गत्वा श्रीवीरचरणान्तिके । समं बहलया धर्म प्रपेदे नियमानपि ।। ३०१ ।। ततश्च काम्पिल्यपुरे जगाम विहरन् प्रभुः । सहस्राम्रवणनामन्युद्याने समवासरत् ।। ३०२ ।। तत्रासीत्कामदेवर्द्धिर्गृहस्थः कुंडकोलिकः । नाम्ना पुष्पेति तद्भार्या शीलालंकारशालिनी ।। ३०३ ।।
भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि ।
२४१॥