SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते IR३७॥ सर्गः श्रीमहावीरजिनचरितम् । सधर्मचारिणी तस्य रुपलावण्यहारिणी । बभूव शिवनन्देति शशांकस्येव रोहिणी ।। २३८ ।। निधौ वृद्धौ व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥२३९ ।। तत्पुरादुत्तरप्राच्या कोल्लाकाख्योपपत्तने । आनन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् ।। २४० ॥ तदा च पृथ्वी विहरज्जिनः सिद्धार्थनन्दनः । तत्पुरोपवने दूतिपलाशे समवासरत् ।। २४१ ।। जितशत्रुर्महीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद्वन्दितुं सपरिच्छदः ।। २४२ ॥ आनन्दोऽपि ययौ पद्भ्यां पादमूले जगत्पतेः । कर्णपीयूषगण्डूषकल्पां श्रुत्वा च देशनाम् ।। २४३ ।। अथानन्दः प्रणम्यांहीन् त्रिजगत्स्वामिनः पुरः । जग्राह द्वादशविधं गृहिधर्म महामनाः ।। २४४ ।। शिवनन्दामन्तरेण स्त्रीः स तत्याज हेम तु । चतस्रश्चतस्रः स्वर्णकोटीर्निध्यादिना विना ।। २४५ ।। प्रत्याचख्यौ व्रजानेष ऋते च चतुरो व्रजान् । क्षेत्रत्यागं च विदधे हलपञ्चशतीं विना ।। २४६ ।। शकटान् वर्जयामास पञ्च पञ्चशतान्यते । दिग्यात्राव्यापृतानां च वहतां चानसां स तु ।। २४७ ।। दिग्यात्रिकाणि चत्वारि स सांवाहनिकानि च । विहाय वहनान्यन्यवाहनानि व्यवर्जयत् ।। २४८ ॥ अपरं गन्धकाषाय्याः स तत्याजांगपुंसनम् । दन्तधावनमार्द्राया मधुयष्टेर्ऋते जहौ ।। २४९ ।। वर्जयामास च क्षीरामलकादपरं फलम् । अभ्यंगं च विना तैले सहस्रशतपाकिमे ।।२५०॥ १ दूत । पूति । भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि । I/२३७॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy