________________
त्रिषष्टिशलाकापुरुषचरिते IR३६॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीर| जिनचरितम् ।
तैख़तमनया यत्सा वराकी मारितेप्रा॒या । दुःशीला मत्स्वसैषा किं विममर्शेति स द्विजः ।। २२४॥ सर्वज्ञोऽत्रागतोऽस्तीति श्रुत्वा लोकादिहागतः । प्रागेष मनसाऽपृच्छत् स्वसूदुःशीललज्जया ।। २२५ ॥ मयोक्तं पृच्छ वाचेति या सा सा सेति पृष्टवान् । अस्माभिश्चैवमित्युक्त्वा तां जामि ज्ञापितो ह्यसौ ।। २२६ ॥ एवं च रागद्वेषाद्यैर्मूढात्मानो भवे भवे । भ्राम्यन्ति भविनो नानादुःखभाजनतां गताः ।। २२७ ।। एवमाकर्ण्य स पुमान् परं संवेगमागतः । स्वामिपार्श्वे प्रवव्रजे तां पल्ली पुनरप्यगात् ।। २२८ ।। प्रबोधिता चौरपुंसा तेन प्रव्रजितेन च । एकोना सा पंचशती चौराणामग्रहीव्रतम् ।। २२९ ।। उत्थाय स्वामिनं नत्वा जगादाथ मृगावती । चण्डप्रद्योतमापृच्छय प्रव्रजिष्याम्यहं प्रभो ।। २३०॥ साऽथ प्रद्योतमप्यूचे यदि त्वमनुमन्यसे । प्रव्रजामि भवोद्विग्ना तदा पुत्रस्तु तेऽर्पितः ।। २३१ ।। स्वामिप्रभावान्निर्वाणवैरः प्रद्योतभूपतिः । तामनुज्ञाय कौशाम्ब्यां चकारोदयनं नृपम् ।। २३२ ।। सहागृह्णन्मृगावत्या प्रव्रज्यां स्वामिसन्निधौ । अष्टावंगारवत्याद्याः प्रद्योतनृपतेः प्रियाः ।। २३३ ।। मृगावत्याद्याः प्रभुणाऽप्यनुशिष्य समर्पिताः । चन्दनायास्तदुपास्त्या सामाचारी च जज्ञिरे ।। २३४ ॥ इतश्चास्ति निरुपमं परमाभिर्विभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥२३५ ।। तत्र प्रजानां विधिवत्पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥२३६ ॥ आसीद् गृहपतिस्तत्र नयनानन्ददर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥२३७ ॥
मृगावत्याः
दीक्षा ।
I२३६॥