________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२३५ ॥
सोऽप्युत्पेदे स्वर्णकारस्तिर्यक्षु प्राग्मृता तु सा । तत्पल्युत्पद्य तिर्यक्षु पुत्रो विप्रकुलेऽभवत् ॥ २१० ॥ पंचाब्दके तत्र जाते तिर्यक्त्वात् स्वर्णकृत् स तु । तत्कुले भगिनीत्वेन तस्यैव समजायत ।। २११ ॥ तस्याश्च पालकश्चक्रे पितृभ्यां स तु दारकः । अतिदुष्टतयाऽरोदीत् पाल्यमानाऽपि तेन सा ।। २१२ ॥ उदरस्पर्शनं तस्याः कुर्वता तेन चान्यदा । गुह्ये कथमपि स्पृष्टा सा न्यवर्तिष्ट रोदनात् ॥ २१३ ॥ तद्रोदनप्रतीकारं तं ज्ञात्वा स तु दारकः । तस्या रुदत्यास्तत्स्थानस्पर्शं चक्रे तथैव हि ।। २१४ ॥ तथा कुर्वन् पितृभ्यां सोऽन्यदा ज्ञातो निहत्य च । निर्वासितो निजगृहाद्ययौ च गिरिगह्वरे ।। २१५ ।। शतानि पंचैकोनानि दस्यवो यत्र तेऽवसत् । तां पल्लीं सोऽगमत्तैश्च चौरैः संयुयुजेतराम् ॥ २१६ ॥ तत्स्वसाऽनाप्ततारुण्याऽप्यभवत् कुलटैव सा । स्वेच्छ्या पर्यटन्ती च ग्रामे क्वाप्यन्यदा ययौ ।। २१७ ।। तैस्तस्करैः स तु ग्रामस्तदैवागत्य लुण्टितः । गृहीता दारिका सा तु भार्यीचक्रेऽखिलैरपि ।। २१८ ।। तेऽन्यदाऽचिन्तयंश्चौरा यदेकेयं वराकिका । सर्वेषां सेवयाऽस्माकं मरिष्यत्यचिरादपि ॥ २१९ ॥ ते विमृश्यैवमानिन्युरपरामपि योषितम् । ईर्ष्यया पूर्वभार्या सा तच्छिद्राणि स्म मार्गति ॥ २२० ॥ चौराश्चौर्याय चान्येद्युर्ययुः साप्याप्य तच्छलम् । उपकूपं सपत्नीं तां निन्ये व्याजेन केनचित् ॥ २२१ ॥ ऊचे च भद्रे ! कूपान्तः किमप्यस्तीह पश्य तत् । साप्यृजुर्द्रष्टुमारेभे मध्ये क्षिप्ता ततस्तया ॥ २२२॥ आगता दस्यवस्ते च तां पप्रच्छुः क्व सा ननु । साऽवोचत् किमहं वेद्मि स्वप्रियां किं न रक्षथ ? ॥ २२३॥
दशमं पर्व अष्टमः
सर्गः श्रीमहावीरजिनचरितम् ।
या सा सा सा वृत्तान्तः ।
॥२३५॥