________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२३४॥
अन्यदाऽस्थुरुपशान्तवेशाः सर्वाश्च तत्स्त्रियः । अन्यथाऽशिक्षयत्ताः स तर्जनाताडनादिभिः ।। १९६ ॥ अतीर्ष्यालुतया तासां रक्षणार्थं समुद्यतः । न जातु स गृहद्वारं सौविदल्ल इवामुचत् ॥ १९७ ॥ भोजनं स्वजनेभ्योऽपि न सोऽदत्त निजे गृहे । नाभुक्त स्वयमप्यन्यगृहे तासामविश्वसन् ॥ १९८ ॥ अन्यदा प्रियमित्रेणानिच्छन्नपि कथंचन । निन्ये निजगृहे भोक्तुमिदं मैत्र्या हि लक्षणम् ॥ १९९ ॥ तदा च दध्युस्तत्पल्यो धिगृद्धिं धिक् च यौवनम् । धिग्जीवितं च तिष्ठामो यद्गुप्ताविव यन्त्रिताः ॥। २०० ।। यमदूत इव द्वारं पापः पतिरयं हि नः । न जातु मुंचति चिरादध साध्वन्यतो ययौ ॥ २०१ ॥ तिष्ठामः स्वेच्छ्या तावत् क्षणमद्येति बुद्धितः । स्नात्वांऽगरागमाकल्पं वरमाल्यादि चादधुः ॥ २०२ ॥ यावद्दर्पणमादाय स्वं पश्यन्त्योऽवतस्थिरे । तास्तावदाययौ स्वर्णकारो दृष्ट्वा च सोऽकुपत् ॥ २०३ ॥ तत्रैकां महिलां पापः स तथाऽताडयद् भृशम् । यथा व्यपादि सा दन्तिपादक्रान्तेव पद्मिनी ॥ २०४ ॥ मन्त्रयाश्चक्रिरेऽथान्या हनिष्यत्येष नोऽपि हि । संभूय हन्मस्तदमुं रक्षितेनामुना हि किम् ? ॥ २०५ ।। एवं विचिन्त्य तास्तस्मै चक्राणीव प्रचिक्षिपुः । शतानि पञ्चैकोनानि दर्पणानामशंकिताः ॥ २०६ ॥ विपेदे सोऽपि तत्कालं सानुतापाश्च ताः स्त्रियः । चितावज्ज्वालयित्वौको व्यपद्यन्त क्षणादपि ॥ २०७ ॥ सानुतापतया ताश्चाकामनिर्जरया मृताः । शतानि पंचैकोनानि मनुष्यत्वेन जज्ञिरे ॥ २०८ ॥ दैवदुर्योगतश्चौर्यजीविनो मिलिताः क्रमात् । एकत्र दुर्गे तिष्ठन्तश्चौर्यं संभूय कुर्वते ॥ २०९ ॥
दशमं पर्व
अष्टमः
सर्गः
श्रीमहावीरजिनचरितम् ।
या सा
सा सा
वृत्तान्तः ।
॥२३४॥