________________
त्रिषष्टिशलाकापुरुषचरिते ।२३३॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
अन्येधुरुद्यद्वैराग्या दध्यावेवं मृगावती । यद्येति भगवान वीरः प्रव्रजामि तदा ह्यहम् ।। १८३ ।। इमं च तस्याः संकल्प विज्ञाय परमेश्वरः । सुरासुरपरीवारोऽचिरादेव समाययौ ।। १८४ ।। बहिश्च समवसृतं श्रुत्वाऽर्हन्तं मृगावती । द्वाराण्युद्घाट्य निर्भीका महाऋद्धया समाययौ ।। १८५ ।। सा वन्दित्वा जगन्नाथं यथास्थानमवास्थित । प्रद्योतोऽप्येत्य वन्दित्वा त्यक्तवैरमुपाविशत् ।। १८६ ।। आयोजनविसर्पिण्या सर्वभाषानुयातया । गिरा श्रीवीरनाथोऽथ विदधे धर्मदेशनाम् ।। १८७ ।। सर्वज्ञोऽसाविति जनाच्छ्रुत्वैको धन्वभृत्पुमान् । संशयं मनसाऽपृच्छददूरस्थो जगद्गुरुम् ।। १८८ ॥ तं बभाषे जगन्नाथो वचसा पृच्छ संशयम् । अन्येऽपि प्रतिबुध्यन्ते भव्यसत्त्वा अमी यथा ॥ १८९ ॥ इत्युक्तेऽपि त्रपानिघ्नो व्यक्तं वक्तुमनीश्वरः । स ऊचे भगवन् या सा सा सेति प्रमिताक्षरम् ।। १९० ॥ एवमेतदिति स्वामी प्रोचे मुकुलिताक्षरम् । पप्रच्छ गौतमः स्वामिन् ! या सा सा सेति किं वचः ।।१९१ ।। अथाचचक्षे भगवानिहैव भरते पुरि । चम्पायां स्वर्णकारोऽभूदेकः स्त्रीलम्पटः पुरा ।। १९२ ।। यां यां रुपवती कन्यामपश्यद्विचरन् भुवि । पञ्चस्वर्णशतीं दत्त्वा तां तां परिणिनाय सः ।। १९३ ।। पर्यणैषीत् क्रमादेवं स्त्रीणां पञ्चशतानि सः । सर्वांगीणाभरणानि तासां प्रत्येकमप्यदात् ।। १९४ ।। वारकोऽभूधदा यस्याः सर्वालङ्कारभृत्तदा । स्नानाङ्गरागलिप्ताङ्ग तेन रन्तुं ससज्ज सा ।। १९५ ।।
चण्डप्रद्योतस्य शतानीको-- परिआक्रमणम् मृगावत्याः कौशलं च ।
IR३३॥
१वान् ।