________________
दशमं पर्व अष्टमः
त्रिषष्टिशलाकापुरुषचरिते ॥२३२॥
सर्गः
श्रीमहावीरजिनचरितम् ।
विमृश्यैवमनुशिष्य दूतः प्रस्थापितस्तया । स्कन्धावारस्थितं गत्वा चण्डप्रद्योतमब्रवीत् ।। १७० ।। ब्रूते मृगावतीति त्वां शतानीके दिवं गते । त्वमेव शरणं किं तु पुत्रोऽप्राप्तबलो मम ।। १७१ ।। मयाऽयं मुक्तः प्रत्यन्तभूपैरभिभविष्यते । भृशं पितृविपत्त्युत्थैः शोकावेगैरिवोल्बणैः ।। १७२ ।। प्रद्योतस्तद्गिरा हृष्टोऽभाषिष्ट ननु तत्सुतम् । पराभवितुमीशः स्यात् को नाम मयि गोप्तरि ॥ १७३ ॥ दूतोऽवदत् पुनर्देव ! देव्यैतदपि भाषितम् । प्रद्योते स्वामिनि सुतं न जेतुं कश्चिदीश्वरः ।। १७४ ॥ देवपादाः परं दूरे समीपे सीमभूभुजः । तदौषध्यो हिमगिरावहिरुच्छीर्षके पुनः ।। १७५ ।। त्वं निर्विनं मया योगं यदीच्छसि कुरुष्व तत् । उज्जयिन्या इष्टकाभिः कौशाम्ब्यां वप्रमुत्कटम् ।। १७६ ।। प्रद्योतस्तत्प्रपेदेऽथ मार्गे श्रेणितया निजान् । चतुर्दशापि नृपतीनमुचत् सपरिच्छदान् ।। १७७ ।। पुंस्परम्परयाऽवन्त्याः समानीय स इष्टकाः । कौशाम्ब्या वप्रमकरोबलिष्टमचिरादपि ॥ १७८ ॥ भूयो मृगावती दूतमुखेनोचे पुरीमिमाम् । धनधान्यैन्धनाद्यैस्त्वं प्रद्योत नृप ! पूरय ।। १७९ ॥ सर्वमाशु तथा चक्रे चण्डप्रद्योतभूपतिः । किं किं करोति न पुमानाशापाशवशीकृतः ।। १८० ।। पुरी रोधक्षमा ज्ञात्वा धीमत्यथ मृगावती । तस्थौ पिधाय द्वाराणि वप्रे चारोपयद्भटान् ।। १८१ ।। चण्डप्रद्योतराजोऽपि तस्थौ रुद्ध्वाऽभितः पुरीम् । प्रालम्बभ्रष्टकपिवत् परं वैलक्षमुद्वहन् ।। १८२ ॥ १ मया स । २ प्रतिपे । ३ देमा ।
चण्डप्रद्योतस्य शतानीकोपरिआक्रमणम् मृगावत्याः कौशलं च ।
२३२॥