________________
त्रिषष्टिशलाकापुरुषचरिते IR३१॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिन
चरितम् ।
उवाच चण्डप्रद्योतः शतानीकस्य पश्यतः । मृगस्येव मृगी सिंहो ग्रहीष्यामि मृगावतीम् ।। १५७ ॥ राजनीतिस्तथाऽप्यस्तु यातु दूतस्तदर्थने । अनर्थः प्रथमं तस्य मा भूदादेशकारिणः ।। १५८ ।। इति प्रैषीद्वज्रजंघं सोऽनुशिष्य तदन्तिके । गत्वा सोऽपि शतानीकं दूतराडेवमब्रवीत् ।। १५९ ।। शतानीकादिशति त्वां चण्डप्रद्योतभूपतिः । देवी मृगावती लब्धा त्वया दैवादियं खलु ।। १६० ॥ स्त्रीरत्नमीदृशं योग्यं मामेव त्वं हि कीदृशः । तच्छीघ्रं प्रेषयास्मभ्यं राज्यं प्राणाश्च चेत्प्रियाः ।। १६१ ।। शतानीकोऽप्यथोवाच कोपाद्रे दूतपांशन ! । अनाचारं वदन्नेवं दूतत्वान्नाद्य हन्यसे ।। १६२ ॥ ईदृग्मय्यप्यनायत्ते यस्येच्छा तस्य पाप्मनः । स्वाधीनायां क आचारः प्रजायां हन्त वर्तते ।। १६३ ॥ शतानीकनृपेणैवं दूतो निर्भय॑ निर्भयम् । निर्वासितोऽगादवन्त्यां प्रद्योतस्य शशंस च ।। १६४ ॥ क्रुद्धोऽथ चण्डप्रद्योतः सैन्यैराच्छादयन् दिशः । चचाल प्रतिकौशाम्बि निर्मर्याद इवार्णवः ।। १६५ ।। श्रुत्वा प्रद्योतमायान्तं गरुत्मन्तमिवोरगः । जातातिसारः प्रक्षोभाच्छतानीको व्यपद्यत ।। १६६ ॥ देवी मृगावती दध्यौ पतिस्तावढ्यपादि मे । बालः स्वल्पबलः सूनुरसावुदयनोऽपि च ॥ १६७ ॥ बलीयसोऽनुसरणं नीतिः स्त्रीलम्पटे त्विह । सा मे कुलकलंकाय तस्माच्छोह युज्यते ।। १६८ ॥ वाचिकैरनुकूलैस्तदेतदत्र स्थिताऽप्यहम् । प्रलोभ्य कालं नेष्यामि समयप्राप्तिकांक्षया ।। १६९ ॥
चण्डप्रद्योतस्य शतानीकोपरिआक्रमणम् मृगावत्याः कौशलं च ।
I२३१॥
१ मृगी।