________________
त्रिषष्टिशलाकापुरुषचरिते IR३०॥
| दशमं पर्व अष्टमः सर्गः श्रीमहावीर
जिन
चरितम् ।
कब्जिकां तां यथारूपां सोऽथ चित्रकरोऽलिखत् । तथाप्यमर्षाद्राजा तत्सदंशकमकर्तयत् ॥ १४५ ॥ चित्रकृत् सोऽपि तं यक्षं गत्वाऽश्रयदुपोषितः । सोऽप्यूचे वामहस्तेन तद्वच्चित्रं करिष्यसि ।। १४६ ॥ एवं लब्धवरश्चित्रकरोऽमर्षादचिन्तयत् । अहं निरागास्तेनेमां किं राज्ञा प्रापितो दशाम् ।। १४७ ॥ तस्य प्रतिकरिष्येऽहमुपायेनापि केनचित् । कुर्वन्ति विक्रमासाध्यं साध्यं बुद्ध्यैव धीधनाः ॥ १४८ ॥ एवं विमृश्य फलके कल्पिताकल्पभूषणाम् । विश्चैकभूषणं देवीं स लिलेख मृगावतीम् ॥ १४९ ।। स्त्रीलोलस्य प्रचण्डस्य चण्डप्रद्योतभूपतेः । गत्वा मृगावतीरुपं स मनोज्ञमदर्शयत् ॥ १५० ॥ तत्प्रेक्ष्य चण्डप्रद्योतस्तमूचे चित्रकृद्वर! । विज्ञानकौशलं मन्ये तवेदं न तु वेधसः ।।१५१ ।। न दृष्टपूर्व मत्र्येऽस्मिन् श्रुतपूर्व न वा दिवि । कथं रुपमलेखीदं प्रतिच्छन्दं विना त्वया ।। १५२ ।। आख्याहि सत्यतः केयं येन गृह्णाम्यमूमहम् । अस्थाने क्वचिदस्त्येषा मय्येवौचित्यमञ्चति ।। १५३ ॥ पूर्णो मनोरथ मेऽसाविति हृष्टोऽथ चित्रकृत् । शशंस पुरिकौशाम्ब्यां शतानीकोऽस्ति भूपतिः ॥ १५४ ॥ नाम्ना मृगावती पूर्णमृगांकास्या मृगेक्षणा । एषाऽग्रमहिषी तस्य मृगारातिसमौजसः ।। १५५ ।। लेखितुं तां यथावस्थां विश्वकर्माऽपि न क्षमः । मया तु किंचिल्लिखिता दूरे सा वचसामपि ॥ १५६ ॥
RSANSARAHARASHARASHRSHASTER
सुरप्रिययक्षचित्रकृच्छतानिकचित्रसमानां वृत्तान्तः ।
IR३०॥
१ रूपं ।