________________
त्रिषष्टिशलाकापुरुषचरिते IR२९॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
तत्रान्यदा शतानीकः सभास्थो गर्वितः श्रिया । ऊचे दूतं नास्ति किं मे यदस्ति परभूभुजाम् ॥ १३१ ॥ तव चित्रसभा नास्तीत्यूचे दूतेन भूपतिः । स चाऽदिशच्चित्रकरान् सभाचित्रणहेतवे ॥१३२ ।। चित्रकृद्भिः सभाभूमिर्विभज्य जगृहे च सा । अन्तःपुरासन्नदेशस्तस्य चित्रकृतस्त्वभूत् ।। १३३ ॥ चित्रं तत्र च कुर्वाणो जालकस्यान्तरेण सः । पादांगुष्टं मृगावत्या देव्याः सोर्मिकमैक्षत ।। १३४ ॥ इयं मृगावती देवीत्यनुमानात् स चित्रकृत् । आलिखत्तां तथारुपां यक्षराजप्रसादतः ॥१३५ ॥ उन्मील्यमाने नेत्रे तूरुमूले कूर्चिकामुखात् । निपपात मषीबिन्दुः सोऽपनिन्ये च तं द्रुतम् ।। १३६ ।। भूयोऽपतन्मषीबिन्दुभूयः सोऽपि ममार्ज तम् । भूयश्च पतितं प्रेक्ष्य स चित्रकृदचिन्तयत् ।। १३७ ॥ नूनं लाञ्छनमेतस्याः प्रदेशे ह्यत्र विद्यते । भवितव्यं ततोऽनेन नापनेष्याम्यतः परम् ।। १३८ ।। एवं समापिते चित्रे तत्रागादीक्षितुं नृपः । पश्यन् क्रमेण तद्रूपं मृगावत्याः ददर्श च ।। १३९ ।। ऊरौ प्रेक्ष्य च तं बिन्दुं कुद्धो राजा व्यचिन्तयत् । विध्वस्ता नूनमेतेन पापेन मम पल्यसौ ॥१४०॥ अन्यथा वस्त्रमध्यस्थं मषग्रन्थिं मृगीदृशः । मृगावत्या विजानीयात् कथमेष दुराशयः ॥ १४१ ।। इति कोपेन तं दोषमुदीर्य नृपतिः स्वयम् । आरक्षकाणां तं सद्यो निग्रहाय समार्पयत् ॥ १४२ ॥ नृपं चित्रकृतोऽथोचुरसावेकांशदर्शतात् । लिखत्यखिलमालेख्यं यक्षदत्तवरौजसा ॥ १४३ ॥ इत्युक्ते तत्परीक्षार्थ क्ष्माभुजा क्षुद्रचेतसा । वरचित्रकृतस्तस्य दर्शितं कुब्जिकामुखम् ।। १४४ ॥
सुरप्रिय यक्षचित्रकृच्छतानिकचित्रसमानां वृत्तान्तः ।
२२९॥