________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२२८॥
उवाच स्थविराऽप्येवं वत्स त्वमपि मे सुतः । सोऽप्युवाचाम्ब ! मे भ्राता मयि सत्यस्तु सुस्थितः ॥ ११८ ॥ सकृत्वा समये षष्टं स्नात्वा चन्दनचर्चितः । शुच्यंशुकोऽष्टगुणया पटया संयमिताननः ।। ११९ ॥ नूतनैः कूर्चकैरुयैर्वर्णकैस्तमचित्रयत् । चित्रकृद्दारको यक्षं नत्वा चैवमवोचत ।। १२० ।।
सुरप्रिय सुरश्रेष्ठ निर्मातुं चित्रकर्म ते । कोऽलमत्यन्तनिष्णोऽपि मुग्धः कोऽहं वराककः ।। १२१ ।। तथापि हि यथाशिक्षं यक्षराज ! मया कृतम् । युक्तायुक्तं तत्क्षमस्व निग्रहानुग्रहक्षम ! ॥ १२२ ॥ एवं तस्य गिरा तुष्टो यक्षो विनयसारया । ऊचे वरं वृणीष्वेति वव्रे चित्रकृदप्यदः ।। १२३ ।। त्वं देव ! यदि तुष्टोऽसि वराकस्य ममाधुना । वरस्तदयमेवास्तु मार्यो नातः परं जनः ॥ १२४ ॥ यक्षोऽप्यूचे सिद्धमेतद्यत्त्वं नैव विनाशितः । अन्यद्याचस्व भो भद्रः स्वार्थसिद्धिनिबन्धनम् ।। १२५ ।। चित्रकृत्पुनरुचेऽथ मारिश्चेद्रक्षिता त्वया । संजातः कृतकृत्योऽहं स्वामिन्नेतावतापि हि ।। १२६ ।। विस्मितोऽथावदद्यक्षः परार्थवरयाञ्चया । भूयोऽपि तव तुष्टोऽस्मि वृणु स्वार्थकृते वरम् ॥ १२७ ॥ उवाच चित्रकृदपि तुष्टोऽसि यदि देव ! मे । यस्य द्विपदस्य चतुःपदस्यान्यस्य वापि च ।। १२८ ।। पश्याम्येकांशमपि हि तदंशस्यानुसारतः । यथावस्थिततद्रूपालेखने शक्तिरस्तु मे ॥ १२९ ॥ ॥ युग्मम् ॥ एवमस्त्विति यक्षेणोदितः पौरेश्च पूजितः । ययौ पुरीं स कौशाम्बीं शतानीकनृपाश्रिताम् ॥ १३० ॥
१ रज्येष्ट ! ।
दशमं पर्व अष्टमः सर्गः
श्रीमहावीर
जिन
चरितम् ।
सुरप्रिययक्षचित्र
कृच्छतानिकचित्रसभानां
वृत्तान्तः ।
॥२२८॥