________________
त्रिषष्टिशलाकापुरुषचरिते २२७॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
तपस्तप्त्वाऽपि जायन्ते जीवाः किल्बिषिकादिषु । जमालिरपि दोषेण तेन किल्बिषिकोऽभवत् ॥१०५ ॥
॥युग्मम् ॥ च्युत्वा ततः पंचकृत्वो भ्रान्त्वा तिर्यग्नृनाकिषु । अवाप्तबोधिर्निर्वाणं जमालिः समवाप्स्यति ।। १०६ ॥ धर्माचार्यप्रभृतीनां तन्न भाव्यं विरोधिना । एवमाख्याय भगवान् विहरन्नन्यतो ययौ ।। १०७ ॥ इतश्च साकेतपुरे यक्षो नाम्ना सुरप्रियः । स चित्र्यते च प्रत्यब्दं क्रियते च महोत्सवः ।। १०८ ।। स चित्रकं चित्रकरं चित्रितः सन्निहन्ति च । अचित्रितः पुनारिं विकरोति पुरेऽखिले ॥१०९ ॥ ततो भीताश्चित्रकराः प्रावर्तन्त पलायितुम् । रुद्धाश्च भूभुजा सर्वे स्वप्रजामारिभीरुणा ।। ११०॥ तेषामात्तप्रतिभुवां लिखित्वा पत्रकेषु च । घटे क्षिप्तानि नामानि यमाक्षपटलोपमे ।। १११ ॥ आपातमात्रेणाकृष्टमब्देऽब्दे यस्य पत्रकम् । निर्ययौ चित्रकृद्यक्षं स गत्वा तमचित्रयत् ।। ११२ ॥ एवं व्रजति काले च कौशाम्ब्या एकदैककः । चित्रकृद्दारकस्तत्र चित्रशिक्षार्थमाययौ ।। ११३ ॥ चित्रकृत्स्थविरायाः स तस्थौ कस्याश्चिदौकसि । समं तत्सूनुना मैत्री जज्ञे तस्य क्रमेण च । ११४ ॥ तदा च स्थविरासूनोर्निर्ययौ नामपत्रकम् । कृतान्तोत्क्षिप्तपत्राभं स्थविरा सा रुरोद च ।।११५ ॥ कौशाम्बीचित्रकुयूना पृष्टा रुदितकारणम् । सा चख्यौ यक्षवृत्तान्तं स्वपुत्रस्य च वारकम् ॥११६ ॥ सोऽप्यभाषिष्ट मा रोदीर्मातस्तिष्ठतु ते सुतः । चित्रकृद्भक्षकं यक्षं चित्रयिष्याम्यहं हि तम् ।। ११७ ॥
सुरप्रिययक्षचित्रकृच्छतानिकचित्र
समानां
वृत्तान्तः ।
IR२७॥