________________
दशमं पर्व अष्टमः
त्रिषष्टिशलाकापुरुषचरिते २२६॥
सर्गः
श्रीमहावीरजिनचरितम् ।
दह्यमानं पटं प्रेक्ष्य बभाषे प्रियदर्शना । भो ढंक ! त्वत्प्रमादेन पश्य दग्धः पटो मम ।। ९१ ॥ ढंकोऽप्युवाच मा साध्वि ! मृषा वादीर्मते हि वः । सकलेऽपि पटे दग्धे युज्यते वक्तुमीदृशम् ।। ९२ ।। दह्यमानोऽपि दग्धोऽयमिति वाक् श्रीमदर्हताम् । युज्यते प्रतिपत्तुं तत्तद्वचोऽनुभवादपि ।। ९३ ॥ तच्छ्रुत्वा साऽपि चोत्पन्नशुद्धधीरभ्यधादिति । अहं चिरविमूढाऽपि त्वया साध्वस्मि बोधिता ।। ९४ ।। ही दूषितमियत्कालं श्रीवीरस्वामिनो वचः । तन्मिथ्यादुष्कृतं मेऽस्तु तत्प्रमाणमतः परम् ।। ९५ ।। अथ ढंको बभाषे तां साधु चेतितवत्यसि । गच्छाधुनापि सर्वज्ञ प्रायश्चितं समाचर ।। ९६ ॥ ढंकेनेत्युदितेच्छामोऽनुशिष्ठिमिति भाषिणी । हित्वा जमालिं सपरीवारा वीरं जगाम सा ।। ९७ ॥ जमालिवर्जमन्येऽपि ढंकेन प्रतिबोधिताः । सर्वेऽपि मुनयो जग्मुः श्रीवीरस्वामिनोऽन्तिके ।। ९८ ।। ततो जमालिरेकाकी कुमतेन प्रतारयन् । महीं पर्याट भूयांसि वर्षाणि व्रतमाचरन् ।। ९९ ॥ अन्तेऽर्धमासानशनं कृत्वा दुष्कर्म तन्निजम् । अनालोच्य मृतः कल्पे षष्टे किल्बिषिकोऽभवत् ।। १०० ।। मृतं जमालिं विज्ञाय वन्दित्वा गौतमः प्रभुम् । पप्रच्छ कां गतिं प्राप ? जमालिः स तपोधनः ।। १०१ ॥ स्वाम्याख्यल्लान्तके कल्पेऽभवत् किल्बिषिकामरः । त्रयोदशसमुद्रायुर्जमालिः स तपोधनः ।। १०२ ॥ भूयोऽपि गौतमोऽपृच्छत्तपोभिस्तादृशैरपि । सोऽभूत् किल्बिषिकः कस्माच्छ्युत्वा च क्व स यास्यति ? ॥१०३॥ अथाख्यद्भगवान् धर्मगुरुणां शीलशालिनाम् । उपाध्यायकुलगणसंघानां च विरोधिनः ।। १०४ ॥
जमालिवृत्तान्तः ।
२२६॥