________________
त्रिषष्टिशलाकापुरुषचरिते IR२५॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
अक्षये मे समुत्पन्ने केवलज्ञानदर्शने । सर्वज्ञः सर्वदर्शी चाहमेवार्हन्निह क्षितौ ॥७७ ।। अथोचे गौतमस्त्वं भो ! जमाले ! ज्ञानवान् यदि । किं शाश्वतोऽशाश्वतो वा जीवो लोकश्च शंस तत् ॥७८ ॥ तस्य प्रत्युत्तरं मूढो जमालितुमक्षमः । प्रसारितमुखस्तस्थौ शून्यो वायसपोतवत् ॥ ७९ ॥ अथोचे भगवान् वीरो जमाले ! विद्धि तत्त्वतः । शाश्वतोऽशाश्वतश्चायं लोको जीवोऽपि लोकवत् ।। ८० ।। लोकोऽयं द्रव्यरुपत्वाच्छाश्वतोऽशाश्वतः पुनः । प्रतिक्षणपरिध्वंसिपर्यायापेक्षया खलु ।। ८१ ।। जीवोऽपि द्रव्यरुपत्वापेक्षत्वेनैष शाश्वतः । अशाश्वतो नृदेवादिपर्यायान्तरसम्भवात् ।। ८२ ।। एवमाख्यात्यपि नाथे मिथ्यात्वमथिताशयः । निर्ययौ समवसृतेर्जमालिः सपरिच्छदः ।। ८३ ।। ततो जमालिः संघेन निह्नवत्वाबहिष्कृतः । स्वामिनः केवलोत्पत्तेस्तदाऽब्दानि चतुर्दश ।। ८४ ।। स्वदर्शनाभिप्रायं स सर्वत्रापि प्ररुपयन् । स्वच्छन्दचारी सर्वज्ञमानी व्यहरतावनिम् ।। ८५ ।। जज्ञे प्रसिद्धिः सर्वत्र यज्जमालिर्जगद्गुरोः । मोहाद्विप्रतिपन्नः सन् मिथ्यात्वं प्रतिपन्नवान् ।। ८६ ।। विहरन्नन्यदा सोऽगाच्छ्रावस्ती नगरी पुनः । तस्थावेकत्र चोद्याने परिवारसमावृतः ।। ८७ ॥ आर्यासहस्रसहिता साप्यार्या प्रियदर्शना । तस्थौ ढंककुलालस्य शालायामृद्धिशालिनः ।। ८८ ॥ परमश्रावको ढंकस्तां दृष्ट्वा कुमतस्थिताम् । बोधयिष्याम्युपायेन केनापीति व्यचिन्तयत् ।।८९ ।। स भाण्डान्यन्यदोच्चिन्वन् बुद्धिपूर्वमलक्षितम् । पटे प्रियदर्शनायाश्चिक्षेप हुतभुक्कणम् ।।९० ।।
जमालिवृत्तान्तः ।
२२५॥