________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरित IR२४॥
अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
सर्वज्ञः केवलालोकज्ञातत्रैलोक्यवस्तुकः । प्रमाणं भगवान् वीरो युक्तयुक्ती मुधैव ते ॥६४ ॥ यदवादीर्जमाले ! त्वं स्खलनं महतामिति । मत्तस्येव प्रमत्तस्येवोन्मत्तस्येव ते वचः ।। ६५ ॥ क्रियमाणं कृतमिति साधु सर्वज्ञभाषितम् । न चेत्तद्वचसा राज्यं सन्त्यज्य प्राव्रजः कथम् ? ॥६६ ॥ अदूष्यं दूषयंस्तस्य वचनं किं न लज्जसे ? । निमज्जसि भवाम्भोधौ किमनेन स्वकर्मणा ।। ६७ ॥ प्रायश्चितं गृहाण त्वं श्रीवीरस्वामिनोऽन्तिके । निजं तपो जन्म चेदं मा स्म नैषीनिरर्थकम् ।। ६८ ॥ अप्येकाक्षरमात्रं यः श्रद्दधात्यहतां न हि । प्रपद्यते स मिथ्यात्वं ततो भवपरंपराम् ।। ६९ ॥ बहुधा स्थविरैरेवं जमालिबोधितोऽपि हि । न न्यवर्तिष्ट कुमतान्मौनमेव तु शिश्रिये ॥ ७० ॥ कुमतप्रतिपन्नं तं हित्वा केऽपि तदैव हि । स्थविराः स्वामिनं जग्मुः केऽपि तत्रावतस्थिरे ॥७१ ॥ मोहेन स्त्रीसुलभेन प्राक् स्नेहेन च शिश्रिये । जमालिपक्षं सपरीवाराऽपि प्रियदर्शना ॥७२ ।। क्रमाज्जमालिरुल्लाघ आत्मानपरानपि । व्युद्ग्राहयन् दुर्मतेन तेन च प्रतिवासरम् ।।७३ ।। हसन् जिनेन्द्रवचनं सर्वज्ञोऽहमिति ब्रुवन् । साहंकारः प्रववृते विहर्तुं सपरिच्छदः ।।७४ । ।युग्मम् ।। सोऽन्येद्युः पुरिचंपायां पूर्णभद्राभिधे वने । श्रीवीरं समवसृतं गत्वाऽवादीन्मदोद्धरः ।।७५ ।। छद्मस्था असमुत्पन्नकेवला भगवंस्तव । शिष्या विपन्ना भूयांसस्तादृगस्मि न खल्वहम् ।।७६ ॥ १ युक्तायुक्त । २ रा ।
जमालिवृत्तान्तः ।
।२२४॥