________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२२३॥
परापरक्षणव्यूहयोगनिष्पद्यमानके । कार्ये कथं कृतमिति प्रारम्भेऽपि निगद्यते ? ।। ५१ ।। अर्थक्रियाविधातृत्वं यस्य तस्यैव वस्तुता । पदार्थे प्रथमकालोत्पन्ने तदपि नास्ति हि ।। ५२ ।। अप्यारम्भे कृतमिति यदि शेषक्षणेषु तत् । कृतस्य करणे नूनमनवस्था प्रसज्यते ।। ५३ ।। तद्युक्तिसंगतमिदं कृतमेव कृतं स्फुटम् । न ह्यजातस्य पुत्रस्य नाम केनापि दीयते ॥ ५४ ॥ प्रत्यक्षं प्रतिपद्यध्वं निर्दोषं मुनयस्ततः । न ह्युक्तमिति गृह्येत युक्तियुक्तं हि गृह्यते ।। ५५ ।। सर्वज्ञ इति विख्यातो नार्हन्मिथ्या वदेदिति । नैवं सोऽपि वदत्येव स्खलनं महतामपि ।। ५६ । एवं विभाषमाणं तं मुक्तमर्यादमुत्कुधम् । जमालिमूचुः स्थविरा विपरीतं ब्रवीषि किम् ? ।। ५७ । न जल्पन्त्यन्यथाऽर्हन्तो रागद्वेषविवर्जिताः । न प्रत्यक्षविरुद्धादिदोषलेशोऽपि तद्गिराम् ॥ ५८ ॥ याद्य समये वस्तु निष्पन्नं नोच्यते तदा । समयाविशेषात्तस्योत्पर्तिर्न समयान्तरे ।। ५९ । अर्थक्रियासाधकत्वं वस्तुनो यच्च लक्षणम् । तदप्यव्यभिचार्येवाभिधाज्ञानोपयोगतः ।। ६० ।। तथाहि तादृशं वस्तु लोकैः प्रथमतोऽपि हि । किं करोषीति पृष्टः सन् घटाद्यभिधया वदेत् ।। ६१ ।। पूर्वकालकृते यच्चाऽनवस्था करणस्य हि । साप्यलीकाऽन्यान्यकार्यान्तरसाधनतः खलु ।। ६२ ।। छद्मस्थानां त्वादृशानां युक्तायुक्तविवेचनम् । कथं भवेद्युक्तियुक्तं त्वद्वचो येन गृह्यते ।। ६३ ।।
दशमं पर्व
अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
जमालि
वृत्तान्तः ।
॥२२३॥