________________
त्रिषष्टिशलाकापुरुषचरिते IR२२॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
चतुर्थषष्टाष्ठमादीन्यतप्यत तपांसि सः । चन्दनामनुगच्छन्ती सा चापि प्रियदर्शना ।। ३७ ॥ नाथं जमालिनत्वोचेऽन्यदाऽहं सपरिच्छदः। विहारेणानियतेन प्रयामि त्वदनुज्ञया ॥३८ ॥ अनर्थं भाविनं ज्ञात्वा भगवान् ज्ञानचक्षुषा । भूयो भूयः पृच्छतोऽपि जमाले!त्तरं ददौ ।।३९ ।। अनिषिद्धमनुज्ञातं जमालिरिति बुद्धितः । विहर्तुं सपरीवारः प्रभुपाश्र्थाद्विनिर्ययौ ॥ ४० ॥ क्रमेण विहरन् प्राप श्रावस्ती सोऽन्यदा पुरीम् । बहिश्च समवासार्षीदुद्याने कोष्टकाभिधे ॥ ४१ ॥ विरसैः शीतलै रुक्षस्तुच्छरसमयाशितैः । पानान्नस्तस्य चान्येधुस्तत्र पित्तज्वरोऽभवत् ।। ४२।। आसीनः सोऽसहः स्थातुं पङ्कान्तरिव कीलकः । संस्तरको मे क्रियतामित्युवाचान्तिषन्मुनीन् ।। ४३ ॥ तेऽपि संस्तरकं कर्तुं प्रारभन्त महर्षयः । शिष्याः कुर्वन्ति गर्वाज्ञां राजाज्ञामिव सेवकाः ।। ४४ ।। पित्तेन पीडितोऽत्यन्तं सोऽपृच्छच्च पुनः पुनः । किं संस्तृत संस्तरको ? न वेति ब्रूत साधवः ! ॥ ४५ ॥ संस्तरकः संस्तृतोऽसावित्यूचुः साधवोऽपि हि । उत्थाय प्रययावार्तो जमालिश्च तदन्तिकम् ।। ४६ ।। संस्तरं संस्तीर्यमाणं प्रेक्ष्याक्षमवपुष्टया । निषद्योत्पन्नमिथ्यात्वः क्रुद्धः साधूनदोऽवदत् ।। ४७ ॥ भो भोश्चिरं वयं भ्रान्तास्तत्त्वं ज्ञातं चिरादिदम् । क्रियमाणं न हि कृतं कृतमेव कृतं खलु ।। ४८ ।। संस्तरः संस्तीर्यमाणः संस्तीर्ण इति वर्णितः । यद्भवद्भिरसत्यं तन्न वक्तुं जातु युज्यते ।। ४९ ।। उत्पद्यमानमुत्पन्नं क्रियमाणं कृतं च यत् । ब्रूतेऽहस्तन्न घटते प्रत्यक्षेण विरोधतः ।। ५०॥
जमालिवृत्तान्तः ।
२२२॥