SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व अष्टमः त्रिषष्टिशलाकापुरुषचरिते IR२१॥ सर्गः श्रीमहावीरजिनचरितम् । स्वामिजन्मजरामृत्युभीतौ त्वां शरणं श्रितौ । स्वयं दीक्षाप्रदानेन प्रसीदाऽनुगृहाण नो ॥ २३ ॥ ददौ तयोः स्वयं दीक्षा समाचारं शशंस च । आवश्यकविधि चाख्यन्निरवद्यमनस्कयोः ।। २४ ।। वसन्ति सन्तो यत्राहरपि तत्रोपकारिणः । किं पुनर्भगवान् विश्वकृतज्ञग्रामणीः प्रभुः ।। २५ ॥ देवानन्दां चन्दनायै स्थविरेभ्यस्त्वथर्षभम् । स्वामी समर्पयामास तौ चाऽपातां परं व्रतम् ।। २६ ।। अधीतैकादशांगौ तौ नानाविधतपःपरौ । अवाप्य केवलज्ञानं मृत्वा शिवमुपेयतुः ।। २७ ।। भगवान वर्धमानोऽपि जगदानन्दवर्धनः । विजहार ततो धात्री ग्रामाकरपुराकुलाम् ।। २८ ।। क्रमाच्च क्षत्रियकुण्डग्राम स्वामी समाययौ । तस्थौ समवसरणे विदधे चाथ देशनाम् ।।२९ ।। स्वामिनं समवसृतं नृपतिर्नन्दिवर्धनः । ऋद्ध्या महत्या भक्त्या च तत्रोपेयाय वन्दितुम् ॥३०॥ स त्रिः प्रदक्षिणीकृत्य वन्दित्वा च जगद्गुरुम् । उपाविशद्यथास्थानं भक्तितो रचिताञ्जलिः ॥३१॥ जमालि म जामेयो जामाता च प्रभोस्तदा । प्रियदर्शनया सार्धं तत्र वन्दितुमाययौ ।। ३२ ।। जमालिर्देशनां श्रुत्वा पितरावनुमान्य च । क्षत्रियाणां पञ्चशत्या सहितो व्रतमाददे ॥३३॥ जमालिभार्या भगवदुहिता प्रियदर्शना । सहिता स्त्रीसहस्रेण प्रावाजीत् स्वामिनोऽन्तिके ।। ३४ ।। ययौ विहर्तुमन्यत्र ततश्च भगवानपि । जमालिरप्यनुचरः सहितः क्षत्रियर्षिभिः ।। ३५ ॥ एकादशांगीमध्यैष्ट जमालिर्विहरन क्रमात् । सहप्रव्रजितानां च तमाचार्य व्यधात्प्रभुः ।। ३६ ।। जमालिवृत्तान्तः । ।२२१॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy