________________
त्रिषष्टिशलाकापुरुषचरिते I२२०॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिन| चरितम् ।
उत्प्रस्नवा निर्निमेषदृष्टिदेववधूरिव । देवानन्दा तवाऽऽलोकात्सूनोरिव कथं प्रभो ! ।।९।। अथाख्यद्भगवान् वीरो गिरा स्तनितधीरया । देवानां प्रिय ! भो देवानन्दायाः कुक्षिजोऽस्म्यहम् ।। १०॥ दिवश्च्युतोऽहमुषितः कुक्षावस्या व्यशीत्यहम् । अज्ञातपरमार्थापि तेनैषा वत्सला मयि ।। ११ ॥ देवानन्दर्षभदत्तौ मुमुदाते निशम्य तत् । सर्वा विसिष्मिये पर्षत्तादृगश्रुतपूर्विणी ।। १२ ।। क्कसूनु स्त्रिजगन्नाथः क्व चावां गृहिमात्रकौ । इत्युत्थाय ववन्दाते दम्पती तौ पुनः प्रभुम् ।। १३ ॥ पितरौ दुःप्रतीकारावीदृग्धीभगवानपि । तामुद्दिश्य जनांश्चापि विदधे देशनामिति ।। १४ ।। इयं माता पितैषौऽयं पुत्र इत्यादिको भवे । जायते विघटते च संबन्धः प्राणिनाममिह ।। १५ ।। इन्द्रजालप्रायमेतत्समस्तमपि संसृतौ । न वस्तु क्षणमप्यत्र श्रद्दधीत विविक्तधीः ।। १६ ।। इदं शरीरं नो यावज्जर्जरीकुरुते जरा । न यावदन्तकः प्राणानाच्छेत्तुमुपतिष्ठते ।। १७ ।। सुखाद्वैतनिधानस्य निर्वाणस्यैकसाधनीम् । तावद्दीक्षामाश्रयध्वं प्रमादोऽत्र न युज्यते ।। १८ ॥ देवानन्दर्षभदत्तावथ नत्वैवमूचतुः । आवां विरक्तौ संसारवासादस्मादसारतः ।। १९ ।। देहि जंगमकल्पद्रो ! दीक्षां संसारतारणीम् । तरीतुं तारयितुं च कोऽपरस्त्वदृते क्षमः ।। २० ।। अस्त्वेतदिति नाथेन प्रोक्तौ तौ धन्यमानिनौ । ईशान्यां दिशि गत्वोञ्झांचक्रतुर्भूषणादिकम् ॥ २१ ॥ पञ्चमुष्टिकचोत्पाटं कृत्वा संवेगतस्तु तौ । नाथं प्रदक्षिणीकृत्य वन्दित्वा चैवमूचतुः ।। २२ ।।
RSASARASHARA
देवानन्दाऋषभदत्तयोः प्रव्रज्या।
IR२०॥