SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका अष्टमः सर्गः । पुरुषचरिते दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् । IR१९॥ अथ भव्यानुग्रहाय ग्रामाकरपुरादिषु । विहरन् ब्राह्मणकुण्डग्रामेऽगात् परमेश्वरः ॥ १ ॥ बहुशालाभिधोद्याने पुरात्तस्माद्बहिः स्थिते । चक्रुः समवसरणं त्रिवप्रं त्रिदशोत्तमाः ।।२।। न्यषदत्प्राङ्मुखस्तत्र पूर्वसिंहासने प्रभुः । गौतमाद्या यथास्थानं सुराद्याश्चावतस्थिरे ।।३।। श्रुत्वा सर्वज्ञमायातं पौरा भूयांस आययुः । देवानन्दार्षभदत्तावेयतुस्तौ च दंपती ॥४॥ त्रिश्च प्रदक्षिणीकृत्य प्रणम्य च जगद्गुरुम् । श्रद्धावानृषभदत्तो यथास्थानमुपाविशत् ।। ५ ॥ देवानन्दा प्रभुं नत्वार्षभदत्तस्य पृष्ठतः । शुश्रूषमाणोर्ध्वज्ञाऽस्थादानन्दविकचानना ॥६॥ स्तनाभ्यां प्राक्षरत्स्तन्यं रोमाञ्चश्चाभवत्तनौ । तदा च देवानन्दायाः पश्यन्त्याः परमेश्वरम् ॥७॥ तथाविधां च तां प्रेक्ष्य जातसंशयविस्मयः । स्वामिनं गौतमस्वामी पप्रच्छेति कृताञ्जलिः ।। ८ ।। १ र्ध्वजाऽस्था । देवानन्दाऋषभदत्तयोः प्रव्रज्या। IR१९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy