________________
श्रेणिकश्चाभयश्चान्ये लोकाश्च तमूर्षि ततः । वन्दित्वा प्रीतमनसः स्वं स्वं प्रययुराश्रयम् ।।३५५ ॥
त्रिषष्टिशलाकापुरुषचरिते IR१८॥
तदा पुरे राजगृहेऽभ्युपेतं
श्रीवीरनाथं स मुनिर्ववन्दे तत्पादपद्मद्वयसेवया स्वं
कृतार्थयित्वा च शिवं प्रपेदे ।।३५६ ॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
आर्द्रकुमारचरित्रम् ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि चेल्लणायोग्यैकस्तंभप्रासादनिर्माणाम्रफलापहरणश्रेणिकविद्याग्रहण-दुर्गन्धाकथा-ऽऽर्द्रककुमारकथावर्णनो
नाम सप्तमः सर्ग ।
I२१८॥