________________
त्रिषष्टिशलाका
पुरुषचरिते
दशम पव सप्तमः सर्गः श्रीमहावीरजिन
।२१७॥
चरितम् ।
तत्प्रभावाद्भुतं दृष्ट्वा परं कोपमुपागताः । तेऽप्याककुमारेण प्रत्यबोध्यन्त तापसाः ।। ३४३ ।। श्री महावीरसमवसरणे प्रेषिताश्च ते । गत्वोपाददिरे दोक्षां शमसंवेगशालिनः ।। ३४४ ।। तत्र श्रेणिकराजोऽपि तत्तथा गजमोक्षणम् । तापसप्रतिबोधं च श्रुत्वाऽऽगादभयान्वितः ॥३४५ ॥ भक्त्या वन्दितवन्तं चाऽऽनन्दयामास पार्थिवम् । सर्वकल्याणकारिण्या धर्मलाभाशिषा मुनिः ॥३४६ ।। दृष्ट्वा मुनिमनाबाधमासीनं शुद्धभूतले । राजाऽपृच्छन्ममाश्चर्य भगवन् ! हस्तिमोक्षणात् ।। ३४७ ।। महर्षिरुचे नोर्वीश ! दुष्करं करिमोक्षणम् । तर्कुतन्तुपाशमोक्षो दुष्करः प्रतिभासते ।। ३४८ ॥ राज्ञा पृष्टश्च स मुनिस्त'तन्तुकथां तथा । कथयामास राजाऽपि सलोकोऽपि विसिष्मिये ।। ३४९ ।। स आर्द्रककुमारर्षिरभाषत ततोऽभयम् । निःकारणोपकारी त्वं ममाभूधर्मबान्धवः ।। ३५० ॥ त्वया हि प्रेषिता राजपुत्रार्हत्प्रतिमा मम । तद्दर्शनादहं जातीस्मरीभूयाऽर्हतोऽभवम् ।।३५१ ।। किं किं त्वया न दत्तं मे किं किं नोपकृतं ननु । येनाहमार्हते धर्मे कृत्वोपायं प्रवर्तितः ।।३५२ ।। अनार्यत्वमहापंकनिमग्नोऽहं त्वयोद्धृतः । त्वबुद्ध्युत्पन्नबोधः सन्नार्यदेशे युपागमम् ।।३५३ ।। परिव्रज्यां प्रपन्नोऽस्मि त्वयाऽहं प्रतिबोधितः । ततोऽभयकुमार! त्वं श्रेयोभिर्भृशमेधसे ।।३५४ ।।
आर्द्रकुमारचरित्रम् ।
२१७॥