________________
त्रिषष्टिशलाकापुरुषचरिते ।२१६॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीर
जिन
चरितम् ।
आद्रकर्षिर्ययौ हस्तितापसानामथाऽऽश्रमम् । उद्वानायातप्रक्षिप्तहस्तिमांसाकुलोटजम् ।। ३३० ।। तत्रस्थास्तापसाश्चैकं सुमहान्तं मतंगजम् । हत्वा तन्मांसमश्नन्तो ते निन्युर्दिवसान् बहून् ।। ३३१ ।। ते चैवमूचुर्हन्तव्यो वरमेको मतंगजः । यस्यैकस्यापि मांसेन भूयान् कालोऽतिगम्यते ।।३३२ ॥ मृगतित्तिरमत्स्याद्यैर्वाऽऽन्यैर्वा बहुभिश्च किम् । तैरप्याहार एवार्थः पापं तत्रातिरिच्यते ।। ३३३ ॥ तदा च ते दयाभासधर्मनिष्ठास्तपस्विनः । बबन्धुरिणायैकं महाकायं मतंगजम् ।। ३३४ ।। स भारशृंखलाबद्धो यत्र चाऽऽसीन्मतंगजः । तेनाध्वना स जगाम महर्षिः करुणार्द्रधीः ।। ३३५ ।। स च हस्ती महर्षि तं मुनिपंचशतीवृतम् । ईक्षामास वन्द्यमानं भूलुठन्मौलिभिर्जनैः ।। ३३६ ।। लघुकर्मा करी सोऽपि मुनिं दृष्ट्वेत्यचिन्तयत् । वन्दे यद्यहमप्येनं बद्धस्तु करवाणि किम् ।।३३७ ।। महर्षिदर्शनात्तस्य गरुत्मदर्शनादिव । अयःपाशा व्यशीर्यन्त नागपाशा इवाभितः ।। ३३८ ।। निरर्गलः सोऽथ हस्ती वन्दितुं तं महामुनिम् । अभ्यसार्षीज्जनस्तूचे मुनिरेष हतो हतः ।। ३३९ ।। पलायाञ्चक्रिरे लोका मुनिस्तस्थौ तथैव सः । इभ्योऽप्यवनमत्कुम्भस्थलः प्रणमति स्म तम् ।।३४० ।। स्पर्श स्पर्श च तत्पादौ दाहार्तः कदलीमिव । परमां निवृति प्राप प्रसारितकरः करी ।। ३४१ ॥ स हस्ती पुनरुत्थाय भक्तिमन्थरया दृशा । पश्यन्महर्षि प्राविक्षदरण्यानीमनाकुलः ॥ ३४२ ।। टि० * उद्वानं - शुष्ककरणम् ।
आर्द्रकुमारचरित्रम् ।
।२१६॥