________________
त्रिषष्टिशलाकापुरुषचरिते २१५॥
दशमं पर्व सत्तमः सर्ग: श्रीमहावीरजिनचरितम् ।
जीवेष्वहिंसा सत्योक्तिरस्तेयं ब्रह्मचारिता । अकिंचन्यं च धर्मोऽयमाईतोऽभिमतोऽस्तु वः ।।३१७ ॥ स्वामिभक्ताः स्थ हे भद्रा राजवत्स्वाम्यहं च वः । तन्ममैवामुमध्वानं प्रपद्यध्वं सुमेधसः ! ।। ३१८ ॥ ते प्रोचुरग्रे स्वामी त्वं सांप्रतं गुरुरप्यसि । त्वया ज्ञापितधर्माः स्मो दीक्षयाऽनुगृहाण नः ॥३१९ ।। इत्याककुमारस्तान् प्रव्राज्य सहितश्च तैः । वन्दितुं श्री महावीरमभिराजगृहं ययौ ।। ३२० ।। गच्छतश्च मुनेस्तस्य गोशालोऽभिमुखोऽभवत् । अकृतप्रणयस्तस्मै विवादं च प्रचक्रमे ।। ३२१ ।। भूचराः खेचराश्चापि तत्रायाताः सहस्रशः । तस्थुः सामाजिकीभूय कौतुकोत्तानितेक्षणाः ॥३२२ ।। गोशालोऽथावदत् कष्टं तपोमूलं वृथैव भोः । शुभाशुभफलानां हि कारणं नियतिः खलु ।। ३२३ ।। प्रत्यूचे स मुनिर्मा स्म मुखमस्तीत्यहो ब्रवीः । कारणं पौरुषमपि मन्यस्वानेन हेतुना ।। ३२४ ॥ कारणं यदि सर्वत्र नियतिं ननु मन्यसे । तत्तवापीष्टसिद्ध्यर्थं प्रसज्जेरन वृथा क्रियाः ।। ३२५ ।। तथाहि नियतिनिष्ठः स्थानस्थः किं न तिष्ठिसि ? । भोजनार्थ प्रयतसे भोजनावसरे च किम् ? ।। ३२६ ॥ एवं नियतिवत्साधु पौरुषं स्वार्थसिद्धये । नियतेरप्यर्थसिद्धौ पौरुषं त्वतिरिच्यते ॥३२७ ।। तथाहि खात् पतत्यम्भो भूखातादपि तद्भवेत् । बलीयसी हि नियतिर्नियतेरपि पौरुषम् ।। ३२८ ।। एवं निरुत्तरीचक्रे गोशालं स महामुनिः । तुष्टुवे खेचराद्यैश्च कुर्वद्भिर्जयमंगलम् ॥३२९ ॥ १भक्ता । २ वचः। ३ सुख ।
आर्द्रकुमारचरित्रम् ।
| २१५॥