________________
त्रिषष्टिशलाकापुरुषचरिते IR१४॥
| दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
तन्मदंयोः कृताः सन्ति यावन्तः सूत्रवेष्टकाः । तावन्त्यब्दानि स्थास्यामि पुत्रप्रेम्णा गृहस्थताम् ।।३०४ ।। पादयोस्तन्तुबन्धाश्च गणिता द्वादशाभवन् । गार्हस्थ्ये द्वादशाब्दानि ततः सोऽप्यत्यवाहयत् ।। ३०५॥ संधाऽवधौ च संपूर्णे वैराग्येणोररीकृतः । यामिन्या पश्चिमे यामे स सुधीरित्यचिन्तयत् ।। ३०६ ॥ संसारकूपान्निर्गन्तुं व्रतमालम्बरज्जुवत् । मया प्राप्तं च मुक्तं च मग्नस्तत्रास्म्यहं पुनः ।। ३०७ ।। मनसैव व्रतं भग्नं प्राग्जन्मनि तथाऽप्यहम् । अनार्यत्वं प्रपन्नोऽस्मि का गतिः स्यादतः परम् ।।३०८ ॥ भवत्विदानीमप्यात्तपरिव्रज्यस्तपोऽग्निना । अग्निशौचांशुकमिवात्मानं प्रक्षालयाम्यहम् ।।३०९ ।। प्रातश्च श्रीमती पत्नीं स संभाष्यानुमान्य च । यतिलिंगमुपादाय निर्ममो निर्ययौ गृहात् ॥३१०॥ स प्रस्थितो राजगृहमन्तराले ददर्श ताम् । स्वां सामन्तपञ्चशती चौर्यवृत्तिपरायणाम् ॥३११ ॥ उपलक्ष्य स तैर्भक्त्या ववन्दे सोऽवदच्च तान् । किमेषा जीविका पापहेतुर्युष्माभिरादृता ? ||३१२ ।। तेऽवोचन वञ्चयित्वाऽस्मान् पलायिष्ठ यदा प्रभो ! दर्शयामः स्म न तदाऽऽत्मानं भूमिपतेहिया ॥३१३ ॥ तवैवान्वेषणे लग्ना भ्रमन्तः सागराम्बराम् । चौर्यवृत्त्यैव जीवामः किमन्यन्निःस्वशस्त्रिणाम् ।। ३१४॥ मुनिरप्यभ्यधाद्भद्राः ! कष्टमापतितं यदि । धर्मानुबन्धि तत्कार्य सफलं लोकयोद्धयोः ।। ३१५ ॥ केनापि पुण्ययोगेन मानुष्यकमवाप्यते । प्राप्तस्य तस्य च फलं धर्मः स्वर्गापवर्गदः ।।३१६ ॥ १ मालबिर।२० ष्टा ।
आर्द्रकुमारचरित्रम् ।
IR१४॥