________________
त्रिषष्टिशलाका
पुरुषचरिते
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
२१३॥
एवं स्थितेऽपि नैष्ठुर्याद्यदि मामवमन्यसे । भूत्वा तदग्निसादास्ये स्त्रीहत्यापातकं तव ।। २९१ ॥ राज्ञा महाजनेनान्यैरप्युद्वाहाय सोऽर्थितः । सस्मार तां गिरं दिव्यां व्रतारम्भनिषेधिकाम् ।। २९२ ।। तां स्मरन्दैवतीं वाचं निर्बन्धेनोदितश्च तैः । महात्मा पर्यणैषीत्तां श्रीमती भावि नान्यथा ॥२९३ ॥ भुजानस्य चिरं भोगान् श्रीमत्या सह तस्य तु । उत्पेदे क्रमयोगेण पुत्रो गार्हस्थ्यकीर्तनम् ।।२९४ ॥ क्रमेणासादयन् वृद्धिं विमुञ्चन् क्षीरकण्ठताम् । स वक्तुमुल्लसज्जिह्वो राजकीर इवाभवत् ॥२९५ ॥ पुत्रे तावति स प्रोचे श्रीमती मतिमद्वरः । अतः परं सहायस्ते पुत्रोऽस्तु प्रव्रजाम्यहम् ।।२९६ ।। श्रीमती धीमती तत्रान्तरे ज्ञापयितुं सुतम् । सतूलपूलकं तर्कुमादायासन्युपाविशत् ।। २९७ ॥ सा तर्कुकर्म प्रारेभे पप्रच्छ च स बालकः । किमेतदम्ब ! प्रारब्धं कर्मेतरजनोचितम् ।। २९८ ॥ साऽवोचज्जात ! ते तातः प्रव्रज्यार्य गमिष्यति । गतेऽस्मिन् पतिहीनायाः शरणं तकुरव मे ।। २९९ ॥ बालकोऽप्यवदद्बाल्यादक्षरैर्लल्लमन्मनैः । बद्ध्वाऽहं धारयिष्यामि कथं यास्यति मे पिता ॥३०० ।। इत्युक्त्वा तर्कसूत्रेण लालयेवोर्णनार्भकः । आवेष्टयत् पितुः पादौ स मुग्धमधुराननः ॥३०१ ।। उवाच चाम्ब ! मा भैषीः स्वस्था भव मया ह्यसौ । बद्धपादो द्विप इवेशीत यातुं कथं पिता ? ॥३०२ ॥ श्रीमतीपतिरप्येवमचिन्तयदहो शिशोः । स्नेहानुबन्धः कोऽप्येष मन्मनःपक्षिपाश्यभूत् ।। ३०३ ॥ १ पूलि।
आर्द्रकुमारचरित्रम् ।
IR१३॥