________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२१२ ॥
वृतो मया यो महर्षिर्वरस्तात ! स एव मे । मम तद्वरणेऽदाच्च द्रव्यं तद्गृह्यदेवता ।। २७७ ।। स्वरुच्याऽपि मया तावन्महर्षि स वृतो वरः । तद्द्रव्यमाददानेन त्वयाऽप्यनुमतं हि तत् ॥ २७८ ॥ तत्तस्मै कल्पयित्वा मां नान्यस्मै दातुमर्हसि । किं न श्रुतं त्वया तात ! बाला अपि वदन्त्यदः ।। २७९ ।। सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति साधवः । सकृत्कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥ २८० ॥ श्रेष्ठ्यूचे स कथं प्राप्यो न ह्येकत्रावतिष्ठते । अॅलीव पुष्पं स स्थानमातिष्ठति नवं नवम् ॥ २८१ ॥ किमायास्यति न वाऽऽयातोऽपि ज्ञास्यते कथम् । किं नाम तस्याभिज्ञानं ? कति नायान्ति भिक्षवः ॥ २८२ ॥ श्रीमत्युचे मया तात ! तदा गर्जितभीतया । दृष्टं तदंड्रौ लक्ष्मास्ति वानर्येव विलग्नया ॥ २८३ ॥ तस्मादतः परं तात ! तथा कुरु यथाऽखिलान् । यातायातपरान् साधून् पश्यामि प्रतिवासरम् ॥ २८४ ॥ श्रेष्ठ्यब्रवीदिहायान्ति ये केचिदिह पत्तने । भिक्षां देहि स्वयं तेभ्यो महर्षिभ्यो दिने दिने ॥ २८५ ॥ चक्रे च प्रत्यहमपि तदाद्यपि तथैव सा । दिदृक्षमाणा तल्लक्ष्मांड्रीन्मुनीनामवन्दत ॥ २८६ ॥ द्वादशाब्दे च दिङ्मूढः स महामुनिरन्यदा । तदा तत्राऽऽगत उपालक्षि तल्लक्ष्मवीक्षणात् ॥ २८७ ॥ तमृषि श्रीमती स्माह तत्र देवकुले तदा । मया वृतोऽसि त्वं नाथ ! त्वमेव हि वरो मम ॥ २८८ ॥ तदा गतोऽसि मां मुग्धां निर्धूय स्वेदबिन्दुवत् । क्क यास्यस्यद्य तु प्राप्तस्त्वमृणं धारयन्निव ॥ २८९ ॥ दृष्टनष्टये यदाऽभूस्त्वं तदाद्यपि हि नाथ ! मे । परासोरिव कालोऽगात्तत्प्रसीद भजस्व माम् ॥ २९० ॥
अलि (भ्रमरः ) इव ।
दशमं पर्व सप्तमः
सर्गः श्रीमहावीर
जिनचरितम् ।
आर्द्रकुमारचरित्रम् |
॥२१२ ॥