________________
त्रिषष्टिशलाकापुरुषचरिते ॥२११ ॥
स तु बन्धुमतीजीवश्च्युत्वाऽजनि सुता तयोः । सुरुपा श्रीमती नाम श्रीमतीनां शिरोमणिः ॥ २६४ ॥ धात्रीभिर्लाल्यमाना च मालतीपुष्पदामवत् । पांशुक्रीडोचितां प्राप वयोऽवस्थां क्रमेण सा ।। २६५ ।। तत्र देवकुलेऽन्येद्युः पौरबालाभिरन्विता । श्रीमती पतिरमणक्रीडया रन्तुमाययौ ॥ २६६ ॥ भर्तारं वृणुतेत्यूचुस्तत्र सर्वाश्च बालिकाः । कयाऽपि कोऽपि सर्वाभिर्वरः स्वरुचि वव्रिरे ।। २६७ ।। श्रीमत्युवाच सख्योऽसौ वृतो भट्टारको मया । साधु वृतं साधु वृतमिति चोवाच देवता ।। २६८ ।। तन्वाना गर्जितं रत्नान्यवर्षत् सा च देवता । श्रीमती गर्जिभीता तु तस्य पादेऽलगन्मुनेः ।। २६९ ।। सोऽचिन्तयत् क्षणं स्थित्वा ममाऽभूदिह तस्थुषः । उपसर्गोऽनुकूलोऽयं व्रतद्रुममहानिलः ॥ २७० ॥ इति ध्यात्वाऽन्यतः सोऽगान्महर्षीणां हि कुत्रचित् । आस्थान्यत्रापि न प्रायः सापायेषु तु का कथा ।। २७१ ।। तामादातुं रत्नवृष्टिमाजगाम महीपतिः । अस्वामिकं धनं राज्ञोऽर्हतीति कृतनिश्चयः ।। २७२ ॥ तद् द्रव्यं संवुवूर्षन्तो ददृशू राजपूरुषाः । नागलोकद्वारमिव स्थानं तन्नागसंकुलम् ॥ २७३ ॥ ऊचे च देवताऽमुष्यै दत्तं वरणके मया । द्रव्यमेतदिति श्रुत्वा विलक्षोऽपासरन्नृपः ।। २७४ ।। ततश्च तद्धनं सर्वमाददे श्रीमतीपिता । स्थानं ययुश्च सर्वे स्वं तदा सायमिवाण्डजाः ।। २७५ ।। अथोद्वोढुमढौकन्त श्रीमतीं बहवो वराः । वरं वृण्वति पित्रोक्ता जगाद श्रीमती त्वदः ॥ २७६ ॥ १ वृत्तं । वृत्तः । वृतः इति ।
दशमं पर्व सप्तमः
सर्गः
श्रीमहावीर
जिनचरितम् ।
आर्द्रकुमारचरित्रम् ।
॥२११॥