________________
त्रिषष्टिशलाकापुरुषचरिते २१०॥
| दशमं पर्व
सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
एवं च वाहयन्नश्वं स ययावधिकाधिकम् । पुनः पुनश्च व्याघुट्याययौ ते च विशश्वसुः ।। २५१।। आर्द्रकासूनुरन्येधुः पुंभिः प्रत्ययितैर्निजैः । प्रगुणं कारयामास यानपात्रं पयोनिधौ ॥२५२ ।। रत्नैश्च पूरयामास यानपात्रं तदाकिः । अग्रेऽप्यारोहयामास तत्रार्हत्प्रतिमां च ताम् ।। २५३ ।। तदैव वाहयन्नश्वमदृशी(श्यो) भूय पूर्ववत् । तत्रारुह्य प्रवहणे स ययावार्यनीवृतम् ।।२५४॥ यानादुत्तीर्य संप्रेष्य प्रतिमामभयाय ताम् । सप्तक्षेत्र्यां धनान्युप्त्वा यतिलिंगमुपाददे ।। २५५ ।। उच्चारयितुमारेभे यावत्सामायिकं च सः । आकाशस्थितया तावदूचे देवतयोच्चकैः ॥२५६ ॥ महासत्त्वो यद्यपि त्वं ग्रहीर्दीक्षा तथापि मा । अद्यापि ते भोगफलं कर्मास्त्यागमयस्व तत् ।। २५७ ॥ भुक्त्वा भोगफलं कर्माऽऽददीथाः समये व्रतम् । अवश्यमेव भोक्तव्यं भोग्यं तीर्थकृतामपि ।। २५८ ॥ महात्मंस्तद् व्रतेनालं यदात्तमपि हास्यते । भोजनेनापि किं तेन यद् भुक्तमपि वम्यते ॥२५९ ॥ अथाऽऽर्द्रककुमारोऽपि स्वमूरीकृत्य पौरुषम् । दैवीं वाचमनादृत्य प्रव्रज्यां स्वयमाददे ।। २६० ॥ प्रत्येकबुद्धः स मुनिर्निशितं पालयन् व्रतम् । विहरन्नन्यदा प्राप वसन्तपुरपत्तनम् ।। २६१ ।। बाह्यदेवकुले क्वापि तस्थौ प्रतिमया च सः । सर्वाऽऽधिपरिहारेण समाधिमधिजग्मिवान् ।।२६२ ।। इतश्च तस्मिन्नगरे वरश्रेष्ठी महाकुलः । देवदत्तोऽभवत्तस्य पत्नी धनवती पुनः ॥२६३ ॥ १क्ष्य।
आर्द्रकुमारचरित्रम् ।
IR१०॥