________________
त्रिषष्टिशलाकापुरुषचरिते २०९॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
तदनुज्ञाप्य पितरमननुज्ञाप्य वाऽप्यहम् । आर्यदेशं गमिष्यामि यत्र मेऽस्त्यभयो गुरुः ।। २३७ ॥ इत्थं मनोरथं कुर्वन् प्रतिमामादिमार्हतः । पूजयन्नार्द्रकासूनुर्व्यतियाति स्म वासरान् ।। २३८ ।। अन्येधुरार्द्रकासूनुर्नुपमेवं व्यजिज्ञपत् । ताताभयकुमारेण सममिच्छामि दर्शनम् ।।२३९ ।। अवादीदाकशोऽपि न गन्तव्यं खलु त्वया । वत्स ! स्थानस्थितानां हि सौहृदं श्रेणिकेन नः ।। २४० ॥ पित्राज्ञया विबद्धश्चोत्कंठितश्चाभयं प्रति । ततश्चाऽऽर्द्रककुमारो न तस्थौ न जगाम च ।। २४१ ॥ वर्षन्नश्रान्तमस्राम्भः स भाद्रपदमेघवत् । अभयोत्कठितस्तस्थावनुद्वानविलोचनः ॥२४२ ॥ आसने शयने याने भोजनेऽन्यक्रियास्वपि । अभयालंकृतामाशां दृशोरग्रे चकार सः ।। २४३ ।। पारापत इवोड्डीय यियासुरभयान्तिके । न ह्याककुमारोऽगादतिं रोर इवामवान् ।। २४४ ॥ कीदृशो मगधो देशः ? कीदृग्राजगृहं पुरम् ? कस्कोऽध्वा तत्र गमने ? ऽपृच्छदेवं च पार्श्वगान् ।। २४५ ।। दध्यावाकराजोऽपि कुमारो मम निश्चितम् । यास्यत्यकथयित्वैव कदाऽप्यभयसन्निधौ ।।२४६ ।। ततश्च पञ्च सामन्तशतान्यादिशदाकः । यदाककुमारोऽयं रक्ष्यो देशान्तरं व्रजन् ॥२४७ ।। देहच्छायेव तत्पार्थ सामन्तास्तेऽत्यजन्न हि । बन्दे धृतमिवात्मानं कुमारोऽपि ह्यमस्त सः ।। २४८ ॥ आर्द्रकिर्हृदये कृत्वाऽभयोपगमनं सुधीः । प्रत्यहं कर्तुमारेभे वाह्याल्यां वाहवाहनम् ॥२४९ ॥ अश्वारुढाश्च पार्श्वेऽस्थुः सामन्तास्तेऽङ्गरक्षकाः । कुमारो वाहयन्नश्वं किश्चिद्गत्वा न्यवर्तत ।। २५०॥
आर्द्रकुमारचरित्रम् ।
| I२०९॥