SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥२०८॥ भार्या बन्धुमती मेऽभूदश्रौषं च तया सह । यथावदार्हतं धर्म सुस्थिताचार्यसन्निधौ ।। २२४ ।। धर्मं श्रुत्वा सभार्योऽपि प्रतिबुद्धस्तदन्तिके । गृहवासविरक्तोऽहं परिव्रज्यामुपात्तवान् ।। २२५ ।। पत्तने चाहमेकस्मिन् गुरुणा विहरन्नगाम् । बन्धुमत्यपि तत्राऽऽगात् संयताजनमध्यगा ।। २२६ ॥ एकस्मिन्नह्नितां पश्यन् स्मरन् पूर्वरतान्यहम् । अनुरक्तोऽभवं तस्यां तदाख्यं चान्यसाधवे ॥ २२७ ॥ सोऽप्याचख्यौ प्रवर्तिन्यै बन्धुमत्यै च सा पुनः । प्रवर्तिनीं च प्रोवाच विषण्णा बन्धुमत्यदः ।। २२८ । गीतार्थोऽप्येष मर्यादां लंघेत यदि का गतिः ? | मर्यादां पालयन्नब्धिरपि पृथ्वीं न लुंपति ॥ २२९ ॥ देशान्तरमपि गतां यावच्छ्रोष्यति मामसौ । तावन्महानुभावश्च मयि रागं न हास्यति ।। २३० ॥ तस्मादहं भगवति ! पपत्स्ये मरणं खलु । न चास्य नापि मे शीलखंडनं जायते यथा ।। २३१ ।। इति साऽनशनं कृत्वा स्वमुद्बध्य च लीलया । निष्ठ्यूतवज्जहौ प्राणान् देवभूयमियाय च ॥ २३२ ॥ तथा मृतां च तां श्रुत्वा मयाऽप्येतद्धि चिन्तितम् । महानुभावाऽमृत सा व्रतभंगभयात् खलु ॥ २३३ ॥ भग्नव्रतः पुनरहं तदलं जीवितेन मे । कृत्वेत्यनशनमहं विपद्य त्रिदशोऽभवम् ॥ २३४ ॥ ततश्च्युत्वाहमुत्पन्नोऽस्म्यनार्यो धर्मवर्जितः । प्रतिबोधयिता यो मां स बन्धुः स गुरुश्च मे ।। २३५ ।। भाग्योदयेन केनापि बोधितोऽभयमंत्रिणा । अद्यापि मन्दभाग्योऽस्मि तं द्रष्टुं यदनीश्वरः ।। २३६ ॥ १ "वोमय्यनुरागं । दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिनचरितम् | आर्द्रकुमारचरित्रम् | ॥२०८॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy