________________
दशमं पर्व सप्तमः
त्रिषष्टिशलाकापुरुषचरिते २०७॥
सर्गः
श्रीमहावीर
जिन
चरितम् ।
ततश्च धूपदहनघंटिकादीनि तत्पुरः । मुमोच देवपूजोपकरणान्यखिलान्यपि ॥ २१०॥ दत्त्वा च तालकं द्वारे ततः श्रेणिकराजसूः । मंजूषां मुद्रामास मुद्रया निजया स्वयम् ।।२११ ॥ आर्द्रकेशपुमांसं तं प्रभूतैः प्राभृतैः सह । विससर्ज प्रियाऽऽलापपूर्वकं मगधाधिपः ।। २१२ ॥ अभयोऽपि हि तां पेटां तस्य हस्ते समर्पयन् । तमुवाचेति सत्कृत्य वाचा पीयूषसारया ।। २१३ ॥ एषाऽऽर्द्रककुमारस्य पुरः पेटोपढौक्यताम् । मदीयं तस्य मद्बन्धोर्वाच्यमेतच्च वाचिकम् ।। २१४ ।। रहस्येकाकिना भूत्वोन्मुद्र्य पेटामिमां स्वयम् । तदन्तर्वस्तु संप्रेक्ष्यं दर्शनीयं न कस्यचित् ।। २१५ ॥ इति कर्तव्यमित्युक्त्वा स पुमान् स्वपुरं ययौ । उपायनान्यर्पयच्च स्वस्वामिस्वामिपुत्रयोः ।। २१६ ।। तच्चाककुमारायाचख्यावभयवाचिकम् । ततो रहसि स स्थित्वा तां पेटामुदघाटयत् ।। २१७ ॥ ददर्श च तदन्तःस्थां तमस्युद्योतकारिणीम् । तामादिनाथप्रतिमां ज्योतिर्भिर्घटितामिव ।।२१८ ॥ दध्यौ च किमिदं किंचिदंगाभरणमुत्तमम् ? किमारोप्यं मूर्ध्नि कण्ठे हृदयेऽन्यत्र वा क्वचित् ? ।। २१९ ॥ दृष्टपूर्वमिवेदं मे क्वापीति प्रतिभासते । न तु स्मृतिपथं याति मन्दाभ्यासस्य शास्त्रवत् ।। २२० । इत्याककुमारस्य भृशं चिन्तयतः सतः । मूर्छा जातिस्मृतिजनन्यजनिष्ट गरीयसी ।। २२१ ।। उत्पन्नजातिस्मरणः स्वयमेवाप्तचेतनः । स एवं चिन्तयामास पूर्वजन्मकथां निजाम् ।। २२२ ॥ इतो भवात्तृतीयस्मिन् भवे मगधनीवृति । कुटुम्बी वसन्तपुरेऽभूवं सामायिकाभिधः ।। २२३ ॥
आर्द्रकुमारचरित्रम् ।
IR०७॥