________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२०६ ॥
अवाप्य पितुरादेशं स्वमनोरथसन्निभम् । जनान्तिकेन सचिव तमुवाचार्द्रकासुतः ।। १९६ ।। मा यासीर्मामनापृच्छय श्रोतव्यं गच्छता त्वया । अभयं प्रति मे स्नेहद्रुमबीजनिभं वचः ।। १९७ ॥ मन्त्र्यप्येवमिति प्रोचे कुमारं सुकुमारगीः । राज्ञा विसृष्टश्च ययौ वेत्रिदर्शितमाश्रयम् ।। १९८ । अन्येद्युर्मौक्तिकादीनि प्राभृतान्यार्द्रकेश्वरः । अर्पयित्वा स्वपुरुषं व्यस्राक्षीन्मन्त्रिणं च तम् ॥ १९९ ॥ अथार्द्रकुमारोऽपि हस्ते तस्यैव मन्त्रिणः । प्रैषीद्विद्रुममुक्तादिवस्तून्यभयहेतवे ॥ २०० ॥ स पुमान्मन्त्रिणा सार्धं गत्वा राजगृहे पुरे । प्राभृतान्यर्पयामास श्रेणिकायाभयाय च ।। २०१ ।। अभयस्य समाचख्यौ वाचिकं चेति मन्त्रिराट् । स आर्द्रककुमारस्ते सख्यं सौभ्रात्रमिच्छति ॥ २०२ ॥ अचिन्तयच्चेत्यभयः कुशलो जिनशासने । विराधितश्रामण्यत्वाज्जातोऽनार्येषु स ध्रुवम् ॥ २०३ ॥ नूनमासन्नभव्यः स महात्मा राजपुत्रकः । अभव्यदूरभव्यानां न मया सख्यकामना ।। २०४ ।। समानपुण्यपापानां प्रीतिः प्रायेण देहिनाम् । तेषां ह्येकः स्वभावः स्यान्मैत्री चैकस्वभावजा ॥ २०५ ।। तदुपायेन केनापि कृत्वा तं जिनधर्मिणम् । आप्तो भवामि स ह्यासौ योऽग्रेगूर्धर्मवर्त्मनि ॥ २०६ ॥ तस्यार्द्रककुमारस्य तीर्थकृबिम्बदर्शनात् । उत्पद्यते यदि पुनर्जातिस्मरणमुत्तमम् ॥ २०७ ॥ तत्प्राभृतच्छलेनार्हत्प्रतिमामहमुत्तमाम् । प्रेषयामि रत्नमयीं महाऽऽचार्यप्रतिष्ठिताम् ॥ २०८ ॥ इत्यादिनाथदेवस्याप्रतिमां प्रतिमां न्यधात् । पेटामध्ये समुद्रस्थां श्रेयस्कामगवीं स्वयम् ॥ २०९ ॥
दशमं पर्व सप्तमः सर्गः
श्रीमहावीरजिनचरितम् ।
आर्द्रकुमारचरित्रम् ।
॥२०६ ॥