________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२०५॥
स मन्त्री गतमात्रोऽपि तेनार्द्रकमहीभुजा । मूर्तिस्थं श्रेणिकाजर्यमिवादृश्यत गौरवात् ।। १८२ ॥ मन्त्रिणा चोपनीतानि प्राभृतान्याददे नृपः । सौवर्चलानिंबपत्रकम्बलादीन्यनेकशः ।। १८३ ॥ महत्या प्रतिपत्त्या तं संभाव्याऽऽर्द्रकभूपतिः । प्रपच्छ कच्चित्कुशलं मद्बन्धोर्मगधेशितुः ।। १८४ ।। स्वस्वामिकुशलोदन्तैः सान्द्रैश्चन्द्रातपैरिव । तन्मनः कुमुदानन्दं सचिवेन्दुरदत्त सः ।। १८५ ।। पप्रच्छाऽऽर्द्रककुमारस्तात ! को मगधाधिपः ? । तव येनेदृशी प्रीतिर्मधुनेव मनोभुवः ।। १८६ ।। राजा प्रोवाच राजाऽस्ति श्रेणिको मगधाधिपः । पारम्पर्यागता मैत्री तत्कुले मत्कुलेऽपि च ।। १८७ ।। द्रागार्द्रककुमारोऽपि प्रोन्मीलत्प्रेमकन्दलः । दृशा सुधातरंगिण्या पश्यन्मन्त्रिणमब्रवीत् ॥ १८८ ॥ किमनूनगुणः सूनुस्त्वत्प्रभोरस्ति कश्चन । अमात्य ! कर्तुमिच्छामि तं सभाजनभाजनम् ॥ १८९ ॥ मन्त्र्यूचेऽस्ति धियां धाम पञ्चमन्त्रिशताधिपः । वदान्योऽनन्यसामान्यकरुणारससागरः ।। १९० ।। दक्षः कृतज्ञः सकलकलाजलधिपारगः । अभयो नाम तनयः श्रेणिकस्य महीपतेः ।। १९१ ।। ॥ युग्मम् ॥ बुद्धिविक्रमसम्पन्नं धर्मज्ञं भयवर्जितम् । अभयं विश्वविदितं न जानासि कुमार ! किम् ? ॥। १९२ ।। गुणान केsपि ते सन्ति येऽभये न कृतास्पदाः । जीवाकारा इवाम्भोधौ स्वयंभूरमणाभिधे ॥ १९३॥ आर्द्रकेशोऽपि पुत्रं स्वमभये सौहृदार्थिनम् । उचे मन्मार्गसंलग्नः कुलीनो नन्दनोऽसि मे ।। १९४ ।। द्वयोः समानगुणयोः समानकुलसम्पदोः । विवाहसम्बन्ध इव युज्यते वत्स सौहृदम् ।। १९५ ।।
| दशमं पर्व
सप्तमः सर्गः
श्रीमहावीर
जिनचरितम् ।
दुर्गन्धा
वृत्तान्तः ।
॥२०५॥