________________
| दशमं पर्व सप्तमः
त्रिषष्टिशलाकापुरुषचरिते २०४॥
सर्गः
श्रीमहावीरजिनचरितम् ।
अभयोऽभिदधे देव ! सेयं चौरी यया प्रभोः । अचोरि चित्तं पर्याप्तमूर्मिकाकथया तया ॥ १६८ ।। स्मितं कृत्वा नृपोऽप्यूचे परिणेष्याम्यमूमपि । किं नाश्रौषीरुपादेयं स्त्रीरत्नं दुष्कुलादपि ।।१६९ ।। इति सद्योऽनवधांगी राजा परिणिनाय ताम् । चकार चाग्रमहिषीमनुरागेण भूयसा ।। १७० ।। रेमेऽन्यदाऽक्ष राज्ञीभिर्नृपस्तत्रेत्यभूत् पणः । जितस्य पृष्ठेऽश्वस्येवाध्यारोहति जयी हि यः ।। १७१ ॥ राज्यः सर्वाः कुलोत्पन्ना व्यजयन्त यदा नृपम् । तदा न्यधुर्वस्त्रमात्रं तत्पृष्ठे जयसूचकम् ॥ १७२ ।। वेश्यासुता तु सा राज्ञी जिगाय नृपमन्यदा । आरुरोह च निःशंका तत्पृष्ठं कठिनाशया ।। १७३ ।। जहास च नृपोऽकस्मात्तत्स्मृत्वा भगवद्वचः । साऽप्युत्तीर्य च पप्रच्छ हासकारणमादरात् ।। १७४ ।। राजाऽपि स्वामिनाऽऽख्यातं तस्याः पूर्वभवादिकम् । पृष्ठारोहणपर्यन्तं वृत्तान्तं तमचीकथत् ।। १७५ ।। तच्छ्रुत्वा द्राग्विरक्ता साऽनुज्ञाप्य पतिमादरात् । श्रीमहावीरपादान्ते परिव्रज्यामुपाददे ।। १७६ ।। इतश्च मध्येऽम्भोराशि पातालभवनोपमः । आर्द्रको नाम देशोऽस्ति पुरं तत्राकाभिधम् ।। १७७ ।। राजमानः श्रिया राजा राजेवानन्दको दृशाम् । तत्राभूदार्द्रक इति महिषी तस्य चाका ।। १७८ ॥ तयोरार्द्रककुमारोऽभवदामनाः सुतः । स प्राप्तयौवनी भोगान् भुञ्जानोऽस्थाद्यथारुचि ।। १७९ ॥ तस्य चाकराजस्य बभूव श्रेणिकस्य च । पारंपर्यागता प्रीतिस्तन्मनोनिगडोपमा ।। १८० ॥ अन्यदा श्रेणिकः प्रैषीन्निजामात्यमुपार्द्रकम् । समर्प्य प्राभृतं प्राज्यं दोहदं स्नेहवीरुधः ।। १८१ ।।
दुर्गन्धावृत्तान्तः ।
I२०४॥