________________
S
त्रिषष्टिशलाकापुरुषचरिते ।।२३८॥
दशमं पर्व अष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
ASASHASHASASHRSHASHASHRSHASHA
अन्यत्सुरभिगन्धाढ्यादुद्वर्तनकमत्यजत् । अष्टभ्य औष्ट्रिकपयस्कुंभेभ्योऽन्यच्च मज्जनम् ।। २५१ ॥ अपरं क्षौमयुगलाद्वासः सर्वमवर्जयत् । श्रीखंडागरुघुसृणान्यपास्यान्यद्विलेपनम् ।। २५२ ।। ऋते च मालतीमाल्यात् पद्माच्च कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यच्चाशेषभूषणम् ।। २५३ ।। तुरुष्कागरुधूपेभ्य ऋते धूपविधि जहौ । घृतपूरात्खंडखाद्यादपरं भक्ष्यमत्यजत् ।।२५४ ।। काष्टपेयां विना पेयां कलमादन्यदोदनम् । माषमुद्कलायेभ्य ऋते सूपमपाकरोत् ।। २५५ ।। घृतं च वर्जयामास विना शारदगोघृतात् । शाकं स्वस्तिकमंडूकी पालक्यां च विना जहौ ।। २५६ ।। ऋते स्नेहाम्लदाल्यम्लात्तेमनं खाम्बुनोऽम्बु च । पंचसुगन्धितांबूलान्मुखवासं च सोऽमुचत् ।। २५७ ॥ आनन्दः शिवनन्दाया उपेत्याथ ससंमदः । अशेषं कथयामास गृहिधर्म प्रतिश्रुतम् ॥२५८ ।। शिवाय शिवनन्दाऽपि यानमारुह्य तत्क्षणम् । भगवत्पादमूलेऽगाद् गृहिधर्मार्थिनी ततः ॥२५९ ।। तत्र प्रणम्य चरणौ जगत्त्रयगुरोः पुरः । प्रपेदे शिवनन्दाऽपि गृहिधर्म समाहिता ॥२६० ॥ अधिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्वाक्सुधापानमुदिता सा गृहं ययौ ।। २६१ ॥ अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः । महात्माऽयं किमानन्दो यतिधर्म ग्रहीष्यति ? || २६२ ।। त्रिकालदर्शी भगवान कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति ।। २६३ ।। १ वालुक्यां ।
भगवतो महावीरस्य दशानां श्रावकाणां चरित्राणि ।
IR३८॥