________________
त्रिषष्टिशलाका
पुरुषचरिते
२०१ ॥
वार्तयद्भिरिव मिथो हेषाव्याजेन वाजिभिः । निरुन्धानोऽवनितलं वाह्यालीरंगनर्तकैः ।। १२८ ।। अम्बरादवतरन्मेघमंडल श्रीविडम्बकैः । शोभमानचमूलोको मायूरातपवारणैः ।। १२९ ।। वाहनस्य तुरंगस्य नृत्यतः स्पर्धया ध्रुवम् । प्रनृत्यद्रत्नताडंकः सहोद्गत इवासने ।। १३० ॥ राकानिशाकरस्पर्द्धिधवलातपवारणः । जाह्नवीयमुनाकल्पवारस्त्री धुतचामरः ।। १३१ ।। वैतालिकैः स्तूयमानः स्वर्णालंकारबन्धुरैः । भूमिष्ठ इव सुत्रामा जगाम मगधाधिपः ।। १३२ ।। ।। षड्भिः कुलकम् ॥ तदा च वर्त्मन्येकाऽभूज्जातमात्रोज्झिताऽर्मिका । पूत्यादिभ्योऽपि दुर्गन्धा नरकांश इवागतः ।। १३३॥ तद्गन्धं घ्रातुमसहाः सर्वे घ्राणमपूपुरन् । प्राणायामकृतः सायं गायत्रीजापका इव ।। १३४ ॥ किमेतदिति पृष्टश्च श्रेणिकेन परिच्छदः । कथयामास दुर्गन्धां जातमात्रोज्झितां च ताम् ।। १३५ । राजाऽप्यर्हन्मुखान्नित्यं श्रुतद्वादशभावनः । अजुगुप्साचरो बालां तां निरीक्ष्य ययौ स्वयम् ।। १३६ ॥ गत्वा समवसरणे वन्दित्वा परमेश्वरम् । दुर्गन्धाया कथां तस्याः पप्रच्छ समये नृपः ।। १३७ ।। स्वाम्याख्यत्पर्यन्तदेशे शालिग्रामेऽभवद्धनी । धनमित्र इति श्रेष्ठी धनश्रीरिति तत्सुता ।। १३८ ॥ धनश्रियो विवाहे च प्रारब्धे श्रेष्ठिनाऽन्यदा । विहरन्तः समाजग्मुग्रष्मर्तौ केऽपि साधवः ।। १३९ ।। प्रतिलाभय साधूनित्यादिदेश च तां पिता । सा सद्वृत्ता प्रवृत्ता च प्रतिलाभयितुं क्षणात् ॥ १४० ॥ महामुनीनां तेषां च स्वेदक्लिन्नांगवाससाम् । मलगन्धस्तया जघ्रे प्रतिलम्भयमानया ।। १४१ ।।
दशमं पर्व
सप्तमः सर्गः
श्रीमहावीर
जिनचरितम् ।
दुर्गन्धा
वृत्तान्तः ।
॥२०१ ॥