________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२०० ॥
चूतचौरेण च प्रोचे चौरा दुष्करकारकाः । अलुण्टितसुवर्णैव नवोढा यैरमोचि सा ।। ११४ ॥ अभयोऽपि परिज्ञाय तस्करं तमधारयत् । पप्रच्छ च कथं चूतापहारो विदधे त्वया ? ।। ११५ ।। चौरोऽप्यकथयद्विद्याबलेनेति ततोऽभयः । राज्ञे तत्सर्वमाचख्यौ तं च चौरं समार्पयत् ।। ११६ ।। श्रेणिकोऽप्यवदत्प्राप्तश्चौरो नान्योऽप्युपेक्ष्यते । शक्तिमान् किं पुनरयं तन्निग्राह्यो ह्यसंशयम् ॥ ११७ ॥ अभयोऽप्यच्छलं प्रार्थ्य महीनाथं व्यजिज्ञपत् । विद्याऽस्माद् गृह्यतां देव ! पश्चाद्युक्तं करिष्यते ॥ ११८ ॥ ततश्च मातंगपतिमुपवेश्यात्मनः पुरः । विद्यां पठितुमारेभे तन्मुखान्मगधाधिपः ।। ११९ ।। राज्ञः सिंहासनस्थस्य सा विद्या पठतोऽपि हि । हृदि नावस्थितिं चक्रे वारि च्युतमिवोन्नते ॥ १२० ॥ ततश्च तर्जयामास चौरं राजगृहेश्वरः । कूटं किमपि ते विद्या न संक्रामति यन्मयि ।। १२१ ।। अभयोऽप्यभ्यधादेव ! विद्यागुरुरयं हि वः । गुरौ विनयभाजां हि विद्या स्फुरति नान्यथा ॥ १२२ ॥ आस्यतामेष मातंगो द्देव ! सिंहासने निजे । अस्याग्रे त्वञ्जलिं बद्ध्वा स्वयं भुव्युपविश्यताम् ॥ १२३ ॥ तस्याथ प्रतिपतिं तां विद्याऽर्थी नृपतिर्व्यधात् । नीचादप्युत्तमां विद्यां गृह्णीयात्प्रथितं ह्यदः ।। १२४ ।। उन्नामन्यवनामन्यौ विद्ये तद्वदनाच्छुते । राज्ञो हृद्यवतस्थाते दर्पणे प्रतिबिंबवत् ।। १२५ ।। अभयोऽपि महीपालं प्रसाद्य रचिताञ्जलिः । विद्यागुरुत्वमापन्नं तं चौरं पर्यमोचयत् ॥ १२६ ॥ अन्यस्मिन्नह्नि समवसृतं श्रीज्ञातनन्दनम् । नन्तुं गजघटाघण्टाटंकारैः पूरयन् दिशः ।। १२७ ।।
दशमं पर्व
सप्तमः
सर्गः श्रीमहावीर
जिनचरितम् ।
आम्रफलस्तेनस्य
वृत्तान्तः ।
॥२००॥