________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥ १९९॥
सा ययौ च तमाराममारामिकमुवाच च । पुष्पलाव्यस्मि सैषाहं नवोढा त्वामुपागता ।। १०१ ।। अहो महासती सत्यप्रतिज्ञेयं महात्मिका । इति तां मातृवन्नत्वा मालिकोऽपि मुमोच सः ।। १०२ ॥ सा व्याघुटन्ती तत्रैव रक्षसस्तत्र तस्थुषः । मालिकेन यथा मुक्ता तथाऽऽख्यदखिलां कथाम् ॥ १०३ ॥ मालिकादपि किं हीनसत्त्वोऽहमिति चिन्तयन् । मुमोच तां राक्षसोऽपि प्रणम्य स्वामिनीमिव ॥ १०४ ॥ पश्यतां वर्त्म चौराणां सन्निधानमुपेत्य सा । जगाद भ्रातरः ! सर्वैः सर्वस्वं गृह्यतां मम ॥ १०५ ॥ मालिकेन यथा मुक्ता यथा मुक्ता च रक्षसा । तत् साऽऽख्यदखिलं तेऽपि तदाकर्यैवमूचिरे ॥ १०६ ॥ न वयं हीनसत्वाः स्मो मालिकात्कौणपादपि । तद्गच्छ भद्रे ! भद्रं ते वन्दिताऽसि भगिन्यसि ।। १०७ ॥ गत्वाऽऽचख्यौ च सा स्वस्मै वराय वरवर्णिनी । चौरराक्षसमालाकृत्कथामवितथां तथा ।। १०८ ।। विभावरीं तामखिलां भुक्तभोगस्तया सह । सर्वस्वस्वामिनीं चक्रे तां पतिस्तपनोदये ।। १०९ ॥ विचार्य तद् ब्रूत जनाः कः स्याद् दुष्करकारकः । किं पतिस्तस्कराः किं वा ? किं रक्षो ? मालिकोऽथ किम् ? ।। ११० ।। तत्र चेर्ष्यालवः प्रोचुः पतिर्दुष्करकारकः । नवोढोऽनंगलग्नापि येन प्रैष्यन्यपुंस्कृते ॥ १११॥ ऊचे क्षुधातुरै रात्रिचरो दुष्करकारक: । येनातिक्षुधितेनापि प्राप्ता सा न हि भक्षिता ।। ११२ ॥ जारैरभिदधे मालाकारो दुष्करकारकः । न सा येनोपबुभुजे स्वयमेवाऽऽगता निशि ॥ ११३ ॥
१ मंग
दशमं पर्व सप्तमः
सर्गः
श्रीमहावीरजिनचरितम् ।
आम्रफल
स्तेनस्य
वृत्तान्तः ।
॥ १९९ ॥