________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९८॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
तां धृत्वा बाहुनोद्यानपालको जातवेपथुः । सद्यो विस्मृतपुष्पापहारकोपो जजल्प च ।। ८७ ।। रमयस्व रिरंसुं मामागतं वरवर्णिनि ! । अन्यथा त्वां न मोक्ष्यामि पुष्पक्रीता मया ह्यसि ।। ८८ ।। तमूचे पुष्पलावी सा मा मा मां स्पृश पाणिना । कुमार्यस्मि न पुंस्पर्शमद्याप्यर्हामि मालिक ! ।। ८९ ।। आरामिकोऽपि तामूचे त्वया तह ढमात्रया । प्रथमं मम संभोगपात्रीकार्यमिदं वपुः ।।९० ॥ तथेति तां प्रपेदानां बालामुद्यानपालकः । मुमोचाक्षतकौमारा साऽपि स्वसदनं ययौ ।। ९१ ॥ अन्येधुः परिणीता च सा वरेण वरीयसा । उवाच च पति रात्री वासागारमुपेयुषी ।। ९२ ॥ आर्यपुत्र ! मया मालाकारस्यास्ति प्रतिश्रुतिः । उदूढमात्रया तस्याभिगमः प्रथमं खलु ।। ९३ ॥ तस्मान्मामनुमन्यस्व वाग्बद्धा तं व्रजाम्यहम् । त्वत्सादपि भविष्यामि सकृत्तमभिजग्मुषी ।। ९४ ।। अहो शुभाशया सत्यसंधेयमिति विस्मयात् । सा पत्याऽनुमता सद्यो निर्ययौ वासवेश्मतः ।। ९५ ।। विचित्ररत्नाभरणा सा यान्ती पथि तथ्यवाक् । अरुध्यत धनायद्भिः पाप्मभिः पारिपन्थिकैः ।।९६ ।। सा तथा मालिककथामाख्यायोवाच तस्करान् । हे भ्रातरो ! व्याघुटन्त्या गृह्णीताऽऽभरणानि मे ॥ ९७ ।। स्वभावकथनात्तस्या मन्वानैः सत्यसन्धताम् । आगच्छन्तीं ग्रहीष्याम इति चौरैरमोचि सा ॥९८ ॥ अग्रे च रक्षसैकेन बुभुक्षाक्षामकुक्षिणा । रुरुधे मृगनेत्रा सा मृगीव मृगवैरिणा ॥ ९९ ।। तस्याः स्वभावाऽऽख्यानेन विस्मितो राक्षसोऽपि हि । वलितां भक्षयिष्यामीत्याशयेन मुमोच ताम् ॥१००॥
आम्रफलस्तेनस्य वृत्तान्तः ।
||१९८॥