________________
त्रिषष्टिशलाकापुरुषचारेते ॥१९७॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
उत्पश्योऽपश्यदागत्य निश्याम्राणि पुनश्च सः । पचेलिमानि गणको नक्षत्राणीव भूस्थितः ।।७४ ॥ क्षणादेवाऽवनामन्या विद्यासिद्धः स विद्यया । आम्रशाखां नमयित्वा स्वैरमाम्राण्युपाददे ।। ७५ ।। प्रातर्नुनफलामाम्रवाटिकां राज्युदैक्षत । चित्रशालामिव भ्रष्टचित्रामरतिदायिनीम् ॥७६ ॥ राज्ञी राज्ञे तदाचख्यौ राजाऽप्यभयमादिशत् । अदृष्टपदसंचारमाम्रचौरं गवेषय ॥७७ ॥ दस्योर्यस्येदृशी शक्तिरतिशायिन्यमानुषी । वत्स ! संभाव्यते तस्मादप्यन्तःपुरविप्लवः ।।७८ ॥ अवादीदभयोऽप्येवमर्पयिष्यामि तस्करम् । अचिरादेव तं देव ! दर्शनप्रतिभूरिव ॥ ७९ ॥ इति प्रतिज्ञा निर्मायाभयस्तद्दिवसादपि । पुरेऽहर्निशमभ्राम्यत्तस्य दस्योर्दिदृक्षया ।। ८०॥ एकदा च पुरे भ्राम्यन्नभयो धीमतां वरः । कार्यमाणे पुरजनैः क्वापि संगीतके ययौ ।। ८१ ॥ पौरदत्ताऽऽसनाऽऽसीनोऽभयः पौरानभाषत । न यावदायान्ति नटास्तावदाकर्ण्यतां कथा ।। ८२ ।। वसन्तपुरवास्तव्यो जीर्णश्रेष्ठ्यतिनिर्धनः । एकोऽभूत्तस्य च बृहत्कुमार्येका वरोचिता ।। ८३ ॥ वरवृन्दारकप्राप्त्यै देवं पूजयितुं स्मरम् । क्वाप्युद्याने चौरिकयोच्चिच्ये पुष्पाणि सान्वहम् ।। ८४ ।। पुष्पचौरं धरिष्येऽहमद्येत्युद्यानपालकः । एकदाऽन्तर्हितो भूत्वा तस्थौ व्याध इव स्थिरः ।। ८५ ।। प्राग्वदागत्य विभात्तां पुष्पाण्यवचिन्वतीम् । दृष्ट्वा रुपवती क्षोभमियायारामिकः स तु ।। ८६ ।। १णि विचिन्व।
आम्रफलस्तेनस्य वृत्तान्तः ।
।।१९७॥