________________
त्रिषष्टिशलाकापुरुषचरिते ।।१९६॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
भणितो व्यन्तरेणैवमभयो वर्धकिं वनात् । आह्वास्त सद्यः सिद्धं नः समीहितमिति ब्रुवन् ।।६१ ॥ । प्रतिपन्नं व्यधात् सौधं व्यन्तरोऽपि तथैव तम् । अधिका: किंकरेभ्योऽपि वाग्बद्वा देवयोनयः ।। ६२ ।। प्रासादमेकस्तंभ तं सर्वर्तुवनमंडितम् । अभयोऽदर्शयद्राज्ञे राजा प्रीतोऽब्रवीददः ।। ६३ ।। इच्छतां केवलं सौधं सर्वर्तुवनमप्यभूत् । उपक्रान्ते क्षीरपाणे शर्करापतनं ह्यदः ॥ ६४ ।। मुमोच चेल्लणां तत्र प्रासादे मगधाधिपः । सोऽलंचक्रे तयाऽत्यन्तं पद्महद इव श्रिया ।। ६५ ।। राज्ञी तु चेल्लणा तत्र सर्वत्थानसंभवैः । पुष्पैरानर्च सर्वज्ञमुच्चितग्रथितैः स्वयम् ।। ६६ ।। सद्योऽवचित्य ग्रथितैः पुष्पैस्तैरेव चेल्लणा । सैरंध्रीव स्वयं पत्युः केशपाशमपूरयत् ।। ६७ ॥ एवं श्रीवीतरागार्थ पत्यर्थं चावचिन्वती । धर्मकामफलीचक्रे तद्वनप्रसवानि सा ।। ६८ ॥ चेल्लणोपवने तत्र सदापुष्पे सदाफले । श्रेणिकं रमयामास मूर्तेव वनदेवता ।। ६९ ॥ विद्यासिद्धस्य मातंगपतेस्तत्पुरवासिनः । पल्या अन्येधुरुत्पेदे माकन्दफलदोहदः ।।७० ॥ साऽवोचत्पतिमाम्राणि देहि पूरय दोहदम् । सोऽब्रवीदयि ! मूढा त्वमाम्राण्यसमये कुतः ।।७१ ।। मातंगपतिमित्यूचे भार्याऽर्यसुत ! विद्यते । फलितं चेल्लणोद्याने सहकारवनं सदा ॥७२ ॥ तदैव चेल्लणोद्यानसमीपं समुपेयिवान् । अतितुंगान् स मातंगोऽद्राक्षीच्च तान सदाफलान् ॥७३ ॥ १ सौरंध्री । सैरिंधी ।
एकस्तंभ
प्रासादनिर्माणम् ।
||१९६॥