________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९५॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
ततो नवनवेनवप्रेम्णा प्रतिदिनं नृपः । अरंस्त चेल्लणादेव्या श्रीदेव्येव वृषाकपिः ॥ ४८ ॥ अन्येधुः पार्थिवो दध्यौ चेल्लणा प्रेयसी मम । कः कर्तव्योऽन्यराज्ञीभ्यः प्रसादोऽस्यां विशेषवान् ।। ४९ ।। एकस्तंभं तदेतस्याः प्रासादं कारयाम्यहम् । तत्र स्थिता क्रीडतु सा विमानस्थेव खेचरी ॥५०॥ उपायमिति निश्चित्य श्रेणिकोऽभयमादिशत् । एकस्तंभ कारयेथाः प्रासादं चेल्लणाकृते ।। ५१ ॥ अभयोऽपि स्तंभयोग्यदानियनहेतवे । आदिशद्वर्धकिं सोऽपि दार्वर्थमटवीं ययौ ।। ५२।। पश्यन्नेकैकशो वृक्षानटव्यामथ वर्धकिः । वृक्षमेकमुदक्षिष्ट सर्वलक्षणलक्षितम् ।। ५३ ॥ दध्यौ च बहलच्छायोऽभ्रंलिहः पुष्पितः फलीः । महाशाखो महास्कन्धः सामान्योऽयं तरुन हि ।। ५४॥ यादृशं तादृशमपि स्थानं निर्दैवतं न हि । वृक्षराजः पुनरयं श्रियाऽपि व्यक्तदैवतः ।। ५५ ।। आराध्यामि तपसा तदेतस्यादिदेवताम् । यथाऽमुं छिन्दतो न स्याद्विघ्नः सस्वामिनो मम ।। ५६ ।। ततश्चोपोषितो भूत्वा वर्धकिस्तं महातरुम् । भक्त्याऽध्यवासयद्गन्धधूपमाल्यादिवस्तुभिः ॥ ५७ ॥ तदाऽभयकुमाराय व्यन्तरस्तद्रुमाश्रयः । आख्यत्तदर्थसिद्धयर्थं रक्षार्थ स्वाश्रयस्य च ।। ५८ ।। मदाश्रयगुर्नच्छेद्यस्तं निवारय वर्धकिम् । प्रासादमेकस्तंभं हि करिष्याम्यहमेव भोः ।। ५९ ।। सर्वर्तुमंडितं सर्ववनस्पतिसमाकुलम् । उद्यानं नन्दनमिव करिष्ये च तदाश्रितम् ॥६०॥
एकस्तंभप्रासाद
निर्माणम् ।
||१९५॥
१ प्यपूजय।