________________
दशमं पर्व सप्तमः
त्रिषष्टिशलाकापुरुषचरिते |१९४॥
सर्गः
श्रीमहावीरजिनचरितम् ।
स्वाम्याख्यद्धर्मपत्नी ते चेल्लणा हि महासती । तामन्यथा मा शशिष्टाः शीलालंकारशालिनीम् ॥३५॥ इदं च श्रेणिकः श्रुत्वा पश्चात्तापमुपागतः । सपदि स्वामिनं नत्वा दधावे नगरं प्रति ।। ३६ ।। तथा प्रदीपनं कृत्वाऽभ्यायान्तं चाभयं नृपः । अपृच्छदस्मदादेशो भवता किमनुष्ठितः ? ॥३७ ॥ अभयोऽपि भयादूचे प्रणम्य रचिताञ्जलिः । स्वाम्यादेशोऽपरस्यापि प्रमाणं किं पुनर्मम ।।३८ ।। राजा प्रोवाच रे पाप! दग्ध्वा मातृजनं निजम् । जीवसि त्वं किमद्यापि किं नापप्तः प्रदीपने ? ॥३९ ॥ अभयोऽप्यभ्यधाद्देव ! श्रुतार्हद्वचनस्य मे । पतंगमरणं नार्हमादास्ये समये व्रतम् ।। ४० ।। अभविष्यत्तदाऽऽदेशो यद्येवमपि मे प्रभोः । तदा पीतविष इव मूर्छयाऽऽलिङ्गि पार्थिवः ॥४१ ॥ अकृत्यं मद्रािऽप्येवं किमकार्षीरिति ब्रुवन् । ततः पतंगमृतिमप्यन्वष्ठास्यं न संशयः ॥ ४२ ।। राजानमभयोऽसिञ्चत् स्वयं शिशिरवारिणा । स्वस्थीभूते च तत्रोचे क्षेममन्तःपुरे प्रभो! ॥४३ ।। मन्मातृणामप्रसादं प्रभो ! भाग्यविपर्यात् । अकार्षीर्निग्रहादेशादपराद्धं मया त्वदः ।। ४४ ।। जीर्णाः करिकुटीस्तात ! शुद्धान्तस्यादवीयसीः । अधाक्षं युष्मदाज्ञामप्यविमृश्य करोमि न ॥ ४५ ॥ राजोचे मम पुत्रोऽसि बुद्धिमानसि चाभय ! । समागच्छत्कलंको मे दूरं येनापसारितः ॥ ४६ ।। पारितोषिकदानेनाऽनुग्राह्याऽथाऽभयं नृपः । अत्युत्कश्चेल्लणादेवीदर्शने सदनं ययौ ।। ४७ ॥ १ गच्छन् कः।
एकस्तंभप्रासादनिर्माणम् ।
||१९४॥