________________
त्रिषष्टि
शलाका
पुरुषचरि
॥ २०२ ॥
सुगन्धचोक्षवसना नानालंकारधारिणी । अंगरागविलिप्ता सा दध्यौ शृंगारमोहिता ।। १४२ ।। अर्हद्भिर्भाषितो धर्मोऽनवद्यः सकलोऽपि हि । स्नायेत प्रासुकाम्भोभिश्चेद्दोषः स्यात्तदा हि कः ।। १४३ ।। मुनीनां मलदुर्गन्धजुगुप्सनसमुद्भवम् । दुष्कर्म तदनालोच्याप्रतिक्रम्य च सा मृता ।। १४४ ।। मृत्वा राजगृहे राजञ्जगाम गणिकोदरे । अभून्मातुश्च सा गर्भस्थिताऽप्यरतिदायिनी ।। १४५ ।। वेश्यया प्रत्यहं पीतैर्गर्भपातौषधैरपि । स गर्भो नापतत् कर्म बलीयः कीदृगौषधम् ।। १४६ ।। सासू मां सुतां वेश्या दुर्गन्धां तेन कर्मणा । विष्टामिव च तत्याजोदरान्निपतितामपि ।। १४७ ।। पप्रच्छ पुनरप्येवं श्रेणिकः परमेश्वरम् । सुखदुःखानुभवभाक् कथमेषा भविष्यति ? ।। १४८ ।। स्वाम्याख्यदनया सर्वमपि दुःखमभुज्यत । यथा तु सुखभागेषा भविष्यति तथा श्रृणु ।। १४९ ।। अष्टौ वर्षाण्यसावग्रमहिषी ते भविष्यति । अभिज्ञानमिदं चात्र तत्परिज्ञानकारणम् ।। १५० ।। शुद्धान्ते रममाणस्य तव पृष्ठे करिष्यति । या हंसलीलां जानीथास्तामिमां मगधाधिप ! ।। १५१ ।। अहो आश्चर्यमेषा मे कथं पत्नी भविष्यति । चिन्तयन्निति राजाऽगाद् गृहे नत्वा जिनेश्वरम् ।। १५२ ।। दुर्गन्धायाश्च गन्धोऽथ कर्मनिर्जरया ययौ । आभीर्या चैकया दृष्ट्वोपाददे साऽनपत्यया ।। १५३ ।। आभीर्योदरजातेव पाल्यमाना क्रमेण सा । बभूव यौवनप्राप्ता रुपलावण्यशालिनी ।। १५४ ।।
दशमं पर्व सप्तमः सर्गः
श्रीमहावीरजिनचरितम् ।
दुर्गन्धावृत्तान्तः ।
॥२०२ ॥